सर्वानन्द दायक श्री कामाख्या ध्यानं स्तोत्रं !

कामाख्या ध्यानम् रविशशियुतकर्णा कुंकुमापीतवर्णा मणिकनकविचित्रा लोलजिह्वा त्रिनेत्रा । अभयवरदहस्ता साक्षसूत्रप्रहस्ता प्रणतसुरनरेशा सिद्धकामेश्वरी सा ॥ १॥ अरुणकमलसंस्था रक्तपद्मासनस्था नवतरुणशरीरा मुक्तकेशी सुहारा । शवहृदि पृथुतुङ्गा स्वाङ्घ्रियुग्मा मनोज्ञा शिशुरविसमवस्त्रा सर्वकामेश्वरी सा ॥ २॥ विपुलविभवदात्री स्मेरवक्त्रा सुकेशी दलितकरकदन्ता सामिचन्द्रावतंसा । मनसिज-दृशदिस्था योनिमुद्रालसन्ती पवनगगनसक्ता संश्रुतस्थानभागा । चिन्ता चैवं दीप्यदग्निप्रकाशा धर्मार्थाद्यैः साधकैर्वाञ्छितार्था ॥ ३॥ कामाख्या स्तोत्रम् जय कामेशि चामुण्डे जय भूतापहारिणि । जय सर्वगते देवि कामेश्वरि नमोऽस्तु ते ॥ १॥ विश्वमूर्ते शुभे शुद्धे विरूपाक्षि त्रिलोचने । भीमरूपे…

अधिक पढ़ें

स्वयं सिद्ध श्री कामाख्या महा कवचम् !

कामाख्या ध्यानम् रविशशियुतकर्णा कुंकुमापीतवर्णा मणिकनकविचित्रा लोलजिह्वा त्रिनेत्रा । अभयवरदहस्ता साक्षसूत्रप्रहस्ता प्रणतसुरनरेशा सिद्धकामेश्वरी सा ॥ १॥ अरुणकमलसंस्था रक्तपद्मासनस्था नवतरुणशरीरा मुक्तकेशी सुहारा । शवहृदि पृथुतुङ्गा स्वाङ्घ्रियुग्मा मनोज्ञा शिशुरविसमवस्त्रा सर्वकामेश्वरी सा ॥ २॥ विपुलविभवदात्री स्मेरवक्त्रा सुकेशी दलितकरकदन्ता सामिचन्द्रावतंसा । मनसिज-दृशदिस्था योनिमुद्रालसन्ती पवनगगनसक्ता संश्रुतस्थानभागा । चिन्ता चैवं दीप्यदग्निप्रकाशा धर्मार्थाद्यैः साधकैर्वाञ्छितार्था ॥ ३॥ कामाख्या-कवचम् ॐ कामाख्याकवचस्य मुनिर्बृहस्पतिः स्मृतः । देवी कामेश्वरी तस्य अनुष्टुप्छन्द इष्यते ॥ विनियोगः सर्वसिद्धौ तञ्च शृण्वन्तु देवताः । शिराः कामेश्वरी देवी कामाख्या चक्षूषी…

अधिक पढ़ें

सर्व सौभाग्य प्राप्ति हेतु श्री कात्यायनी अष्टकं !

श्रीगणेशाय नमः । अवर्षिसंज्ञं पुरमस्ति लोके कात्यायनी तत्र विराजते या । प्रसाददा या प्रतिभा तदीया सा छत्रपुर्यां जयतीह गेया ॥ १॥ त्वमस्य भिन्नैव विभासि तस्यास्तेजस्विनी दीपजदीपकल्पा । कात्यायनी स्वाश्रितदुःखहर्त्री पवित्रगात्री मतिमानदात्री ॥ २॥ ब्रह्मोरुवेतालकसिंहदाढोसुभैरवैरग्निगणाभिधेन । संसेव्यमाना गणपत्यभिख्या युजा च देवि स्वगणैरिहासि ॥ ३॥ गोत्रेषु जातैर्जमदग्निभारद्वाजाऽत्रिसत्काश्यपकौशिकानाम् । कौण्डिन्यवत्सान्वयजैश्च विप्रैर्निजैर्निषेव्ये वरदे नमस्ते ॥ ४॥ भजामि गोक्षीरकृताभिषेके रक्ताम्बरे रक्तसुचन्दनाक्ते । त्वां बिल्वपत्रीशुभदामशोभे भक्ष्यप्रिये हृत्प्रियदीपमाले ॥ ५॥ खड्गं च शङ्खं महिषासुरीयं पुच्छं त्रिशूलं महिषासुरास्ये ।…

अधिक पढ़ें

श्री कमला अष्टोत्तर शतनाम स्तोत्रम् !

श्रीशिव उवाच शतमष्टोत्तरं नाम्नां कमलाया वरानने । प्रवक्ष्याम्यतिगुह्यं हि न कदापि प्रकाशयेत् ॥ १॥ महामाया महालक्ष्मीर्महावाणी महेश्वरी । महादेवी महारात्रिर्महिषासुरमर्दि नी ॥ २॥ कालरात्रिः कुहूः पूर्णा नन्दाऽऽद्या भद्रिका निशा । जया रिक्ता महाशक्तिर्देवमाता कृशोदरी ॥ ३॥ शचीन्द्राणी शक्रनुता शङ्करप्रियवल्लभा । महावराहजननी मदनोन्मथिनी मही ॥ ४॥ वैकुण्ठनाथरमणी विष्णुवक्षःस्थलस्थिता । विश्वेश्वरी विश्वमाता वरदाऽभयदा शिवा ॥ ५॥ शूलिनी चक्रिणी मा च पाशिनी शङ्खधारिणी । गदिनी मुण्डमाला च कमला करुणालया ॥ ६॥ पद्माक्षधारिणी ह्यम्बा महाविष्णुप्रियङ्करी…

अधिक पढ़ें

विश्वसार तन्त्रोक्त स्वयंसिद्ध श्री कमला कवचं !

श्रीगणेशाय नमः । ॐ अस्याश्चतुरक्षराविष्णुवनितायाः कवचस्य श्रीभगवान् शिव ऋषिः । अनुष्टुप्छन्दः । वाग्भवा देवता । वाग्भवं बीजम् । लज्जा शक्तिः । रमा कीलकम् । कामबीजात्मकं कवचम् । मम सुकवित्वपाण्डित्यसमृद्धिसिद्धये पाठे विनियोगः । ऐङ्कारो मस्तके पातु वाग्भवां सर्वसिद्धिदा । ह्रीं पातु चक्षुषोर्मध्ये चक्षुर्युग्मे च शाङ्करी ॥ १॥ जिह्वायां मुखवृत्ते च कर्णयोर्दन्तयोर्नसि । ओष्ठाधारे दन्तपङ्क्तौ तालुमूले हनौ पुनः ॥ २॥ पातु मां विष्णुवनिता लक्ष्मीः श्रीवर्णरूपिणी ॥ कर्णयुग्मे भुजद्वन्द्वे स्तनद्वन्द्वे च पार्वती ॥ ३॥…

अधिक पढ़ें

स्वयंसिद्ध श्री कनक दुर्गा आनन्द लहरी सिद्ध स्तोत्रं !

वन्दे गुरुपदद्वन्द्वमवाङ्मानसगोचरं । रक्तशुक्लप्रभामिश्रमतर्क्यं त्रैपुरं महः ॥ अखण्डमण्डलाकारं विश्वं व्याप्य व्यवस्थितं । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ शिवे सेवासक्ताश्रितभरणकार्यैकचतुरे शिरोभिर्वेदानां चिरविनुतकल्याणचरिते । स्मितज्योत्स्नालीलारुचिररुचिमच्चन्द्रवदने जगन्मातर्मातर्जय कनकदुर्गे भगवति ॥ १॥ नगाधीशट्कन्ये नलिनदळसङ्काशनयने सुगीतैर्गन्धर्वैस्सुरयुवतिभिश्चानुचरिते । अगण्यैराम्नायैरपि गुणनिकायैर्विलसिते जगन्मातर्मातर्जय कनकदुर्गे भगवति ॥ २॥ निजश्रेयस्कामैर्निटलघटितां च तत्करपुटैः स्तुवद्भिस्सानन्दं श्रुतिमधुरवाचां विरचनैः । असङ्ख्यैर्ब्रह्माद्यैरमरसमुदायैः परिवृते दया कर्तव्या ते मयि कनकदुर्गे भगवति ॥ ३॥ भवत्पादन्यासोचितकनकपीठीपरिसरे पतन्तस्साष्टाङ्गं मुदितहृदया ब्रह्मऋषयः । न वाञ्छन्ति स्वर्गं न च कमलसम्भूतभवनं न वा…

अधिक पढ़ें

श्री आर्या पञ्चदशी स्तोत्रम् !

करकलितचापबाणां कल्हाराङ्घ्रिं नमामि कल्याणीम् । कंदर्पदर्पजननीं कलुषहरां कामितार्थफलदात्रीम् ॥ १ ॥ एषा स्तोतुम् वाणी नैव समर्था तवेशि महिमानम् । शेषोऽप्यब्दसहस्रैः शेषं कृतवान् महेशि तव चरितम् ॥ २ ॥ ईशित्वादिसुपूज्यामिन्दिन्दिरकेशाभारसूल्लसिताम् । इन्दीवरदलनयनामीप्सितदात्रीं नमामि शर्वाणीम् ॥ ३ ॥ लसदरुणभानुकोटिद्युतिनिधिमम्बां सुरेन्द्रलक्ष्यपदाम् । ललितां नमामि बाले ललितशिवहृदयकमलकलहंसीम् ॥ ४ ॥ ह्रींकारबीजरूपे हिमगिरिकन्ये हरीन्द्रभववन्द्ये । हिमकरधवलच्छत्रे हिताय भव नः सदा महाराज्ञि ॥ ५ ॥ हर्षोत्करजनयित्री हसितज्योत्स्ना तवेयमनवद्ये । हरगलहालाहलमपि हरति त्रैलोक्यमोहतिमिरं ते ॥ ६ ॥ सकलमनोरथदाने…

अधिक पढ़ें

रुद्रयामल तन्त्र अन्तर्गत शिव विरचितं आम्नाय स्तोत्रम् !

श्रीनाथादिगुरुत्रयं गणपतिं पीठत्रयं भैरवम् । सिद्धौघं वटुकत्रयं पदयुगं दूतीक्रमं मण्डलम् ॥ वीरान्द्व्यष्टचतुष्कषष्टिनवकं वीरावलीपञ्चकम् । श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् ॥ (गुरुपादुकामनुमुच्चार्य सुमुखादिभिः पञ्चमुद्राभिः श्रीगुरुं प्रणम्य) पूर्वाम्नायः – शुद्धविद्या च बाला च द्वादशार्धा मतङ्गिनी । द्विजत्वसाधिनी विद्या गायत्री वेदमातृका ॥ १॥ गाणपत्यं कार्तिकेयं मृत्युञ्जयं नीलकण्ठम् । त्र्यम्बकं जातवेदाश्च तथा प्रत्यङ्गिरादयः ॥ २॥ मुखात्तत्पुरुषाज्जाता द्विकोटीमन्त्रनायिकाः । एताः कामगिरीन्द्राश्च पूर्वाम्नायस्य देवताः ॥ ३॥ गुरुत्रयादिपीठान्तं चतुर्विंशत्सहस्रकम् । एतदावरणोपेतं पूर्वाम्नायं भजाम्यहम् ॥ ४॥ विशुद्धौ चिन्तयेद्धीमान् पूर्वाम्नायस्य देवताः ।…

अधिक पढ़ें

श्री मच्छङ्कराचार्य विरचिता श्री आनन्द लहरी स्तोत्रम् !

भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः प्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि । न षड्भिः सेनानीर्दशशतमुखैरप्यहिपतिः तदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ १॥ घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदैः विशिष्यानाख्येयो भवति रसनामात्र विषयः । तथा ते सौन्दर्यं परमशिवदृङ्मात्रविषयः कथंकारं ब्रूमः सकलनिगमागोचरगुणे ॥ २॥ मुखे ते ताम्बूलं नयनयुगळे कज्जलकला ललाटे काश्मीरं विलसति गळे मौक्तिकलता । स्फुरत्काञ्ची शाटी पृथुकटितटे हाटकमयी भजामि त्वां गौरीं नगपतिकिशोरीमविरतम् ॥ ३॥ विराजन्मन्दारद्रुमकुसुमहारस्तनतटी नदद्वीणानादश्रवणविलसत्कुण्डलगुणा नताङ्गी मातङ्गी रुचिरगतिभङ्गी भगवती सती शम्भोरम्भोरुहचटुलचक्षुर्विजयते ॥ ४॥ नवीनार्कभ्राजन्मणिकनकभूषणपरिकरैः वृताङ्गी सारङ्गीरुचिरनयनाङ्गीकृतशिवा । तडित्पीता…

अधिक पढ़ें

श्री सिद्धअष्ट लक्ष्मी माला सिद्ध महामन्त्रम् !

अस्य श्रीअष्टलक्ष्मीमालामन्त्रस्य – भृगु ऋषिः – अनुष्टुप् छन्दः – महालक्ष्मीर्देवता – श्रीं बीजं – ह्रीं शक्तिः – ऐं कीलकं – श्री अष्ट लक्ष्मी प्रसाद सिद्ध्यर्थे जपे विनियोगः । ॐ नमो भगवत्यै लोकवशीकरमोहिन्यै, ॐ ईं ऐं क्षीं, श्री आदिलक्ष्मी, सन्तानलक्ष्मी, गजलक्ष्मी, धनलक्ष्मी, धान्यलक्ष्मी, विजयलक्ष्मी, वीरलक्ष्मी, ऐश्वर्यलक्ष्मी, अष्टलक्ष्मी इत्यादयः मम हृदये दृढतया स्थिता सर्वलोकवशीकराय, सर्वराजवशीकराय, सर्वजनवशीकराय सर्वकार्यसिद्धिदे, कुरु कुरु, सर्वारिष्टं जहि जहि, सर्वसौभाग्यं कुरु कुरु, ॐ नमो भगवत्यै श्रीमहालाक्ष्म्यै ह्रीं फट् स्वाहा ॥…

अधिक पढ़ें