सम्पूर्ण श्री ललिता त्रिशती स्तोत्र रत्नम् !

समस्त साधनाओं के लिए पंजिकरण खोल दिए गए हैं, अब आप वेबसाईट पर अपना खाता बनाकर साधनाओं हेतु पंजिकरण कर सकते हैं ! समस्त दीक्षा/साधना/अनुष्ठान एवं साधनापूर्व प्रशिक्षण की त्वरित जानकारियों हेतु हमारी मोबाईल ऐप इंस्टाल करें ! मोबाईल ऐप इंस्टाल करने हेतु क्लिक करें ! या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता, नमस्तस्यै, नमस्तस्यै, नमस्तस्यै नमो नमः । माँ भगवती आप सब के जीवन को अनन्त खुशियों से परिपूर्ण करें ।

सकुंकुमविलेपनामलिकचुम्बिकस्तूरिकां समन्दहसितेक्षणां सशरचापपाशांकुशाम् ।

अशेषजनमोहिनीमरुणमाल्यभूषाम्बरां जपाकुसुमभासुरां जपविधौ स्मरेदम्बिकाम् ।।

अगस्त्य उवाच

हयग्रीव दयासिन्धो भगवन् भक्तवत्सल । त्वत्त: श्रुतमशेषेण श्रोतव्यं यद्यदस्ति तत् ।।1।।

रहस्यनामसाहस्त्रमपि तत्संश्रुतं मया । इत: परं च मे नास्ति श्रोतव्यमिति निश्चय: ।।2।।

तथापि मम चित्तस्य पर्याप्तिर्नैव जायते । कार्तार्त्यमप्राप्त इव शोचत्यात्मापि मे प्रभो ।।3।।

किमिदं कारणं ब्रूहि ज्ञातव्यांशोsपि वा पुन: । अस्ति चेन्मामनुब्रूहि ब्रूहीत्युक्त्वा प्रणम्य तम् ।।4।।

सूत उवाच

समाललम्बे तत्पादयुगलं कलशोद्भव: । हयाननो भीतभीत: किमिदं किमिदं त्विति ।।5।।

मुंच मुंचेति तं चोक्त्वा चिन्ताक्रान्तो बभूव स: । चिरं विचार्य निश्चिन्वन् वक्तव्यं न मयेत्यसौ ।।6।।

तूष्णीं स्थित: स्मरन्नाज्ञां ललिताम्बाकृतां पुरा । तं प्रणम्यैव स मुनिस्तत्पादावत्यजन् स्थित: ।।7।।

वर्षत्रयावधि तथा गुरुशिष्यौ तथा स्थितौ । तच्छृण्वन्तश्च पश्यन्त: सर्वलोकास्सुविस्मिता: ।।8।।

तत्र श्रीललितादेवी कामेश्वरसमन्विता । प्रादुर्भूता रहस्येवं हयग्रीवमवोचत ।।9।।

श्रीदेव्युवाच

अश्वाननावयो: प्रीतिश्शास्त्रविश्वासिने त्वयि । राज्यं देयं शिरो देयं न देया षोडशाक्षरी ।।10।।

स्वमातृयोनिवद्गोप्या विद्यैषेत्यागमा जगु: । ततोsतिगोपनीया मे सर्वपूर्तिकरी स्तुति: ।।11।।

मया कामेश्वरेणापि कृत्वा सा गोपिता भृशम् । मदाज्ञया वचो देव्यश्चक्रुर्नामसहस्त्रकम् ।।12।।

आवाभ्यां कथितो मुख्य: सर्वपूर्तिकर: स्तव: । सर्वक्रियाणां वैकल्यपूर्तिर्यज्जपतो भवेत् ।।13।।

सर्वपूर्तिकरं तस्मादिदं नाम कृतं मया । तद्ब्रूहि त्वमगस्त्याय पात्रभूतो न संशय: ।।14।।

पत्न्यस्य लोपामुद्राख्या मामुपास्तेsतिभक्तित: । अयं च नितरां भक्तस्तस्मादस्य वदस्व तत् ।।15।।

अमुंचमानस्त्वत्पादौ वर्षत्रयमसौ स्थित: । एतज्ज्ञातुमतो भक्त्या हीदमेव निदर्शनम् ।।16।।

चित्तपर्याप्तिरेतस्य नान्यथा सम्भविष्यति । सर्वपूर्तिकरं तस्मादनुज्ञातो मया वद ।।17।।

सूत उवाच

इत्युक्त्वान्तर्दधावम्बा कामेश्वरसमन्विता । अथोत्थाप्य हयग्रीव: पाणिभ्यां कुम्भसम्भवम् ।।18।।

संस्थाप्य निकटे वाचमुवाच भृशविस्मित: ।

श्रीहयग्रीव उवाच

कृतार्थोsसि कृतार्थोsसि कृतार्थोsसि घटोद्भव ।।19।।

त्वत्समो ललिताभक्तो नास्ति जगत्त्रये । येनागत्य स्वयं देवी तव वक्तव्यमन्वशात् ।।20।।

सच्छिष्येण त्वयाहं च दृष्टवानस्मि तां शिवाम् । यतन्ते यद्दर्शनाय ब्रह्मविष्ण्वीशपूर्वका: ।।21।।

अत: परं ते वक्ष्यामि सर्वपूर्तिकरं स्तवम् । यस्य स्मरणमात्रेण पर्याप्तिस्ते भवेद् हृदि ।।22।।

रहस्यनामसाहस्त्रादतिगुह्यतमं मुने । आवश्यकं ततो ह्येतल्ललितां समुपासितुम् ।।23।।

तदहं ते प्रवक्ष्यामि ललिताम्बानुशासनात् । श्रीमत्पंचदशाक्षर्या: कादिवर्णक्रमान्मुने ।।24।।

पृथग्विंशतिनामानि कथितानि घटोद्भव । आहत्य नाम्नां त्रिशती सर्वसम्पूर्तिकारिणी ।।25।।

रहस्यातिरहस्यैषा गोपनीया प्रयत्नत: । तां श्रृणुष्व महाभाग सावधानेन चेतसा ।।26।।

केवलं नामबुद्धिस्ते न कार्या तेषु कुम्भज । मन्त्रात्मकत्वमेतेषां नाम्नां नामात्मतापि च ।।27।।

तस्मादेकाग्रमनसा श्रोतव्यं भवता मुने ।

सूत उवाच

इत्युक्त्वा तु हयग्रीव: प्रोचे नामशतत्रयम् ।।28।।

इति पूर्वपीठिका

अस्य श्री श्रीललितात्रिशतीस्तोत्रमालमन्त्रस्य भगवान् हयग्रीवऋषि: अनुष्टुप् छन्द: श्रीललितामहेश्वरी देवता ऎं बीजं, सौ: शक्ति:, क्लीं कीलकं, मम चतुर्विधफलपुरुषार्थसिद्धयर्थे जपे विनियोग: ।।

(ऎमित्यादिभिरंगन्यासकरन्यासा: कार्या:)

ध्यानम्तिमधुर चापहस्ताम परिमितामोदबाणसौभाग्यम् ।

अरुणामतिशयकरुणामभिनव कुलसुन्दरीं वन्दे ।।

(लमित्यादिपंचपूजां कुर्यात्)

ककाररूपा कल्याणी कल्याणगुणशालिनी । कल्याणशैलनिलया कमनीया कलावती ।।1।।

कमलाक्षी कल्मषघ्नी करुणामृतसागरा । कदम्बकाननावासा कदम्बकुसुमप्रिया ।।2।।

कन्दर्पविद्या कन्दर्पजनकापांगवीक्षणा । कर्पूरवीटीसौरभ्यकल्लोलितककुप्तटा ।।3।।

कलिदोषहरा कंजलोचना कम्रविग्रहा । कर्मादिसाक्षिणी कारयित्री कर्मफलप्रदा ।।4।।

एकाररूपा चैकाक्षर्येकानेकाक्षराकृति: । एतत्तदित्यनिर्देश्या चैकानन्दचिदाकृति: ।।5।।

एवमित्यागमाबोध्या चैकभक्तिमदर्चिता । एकाग्रचित्तनिर्ध्याता चैषणारहितादृता ।।6।।

एलासुगन्धिचिकुरा चैन:कूटविनाशिनी । एकभोगा चैकरसा चैकैश्वर्यप्रदायिनी ।।7।।

एकातपत्रसाम्राज्यप्रदा चैकान्तपूजिता । एधमानप्रभा चैजदनेजज्जगदीश्वरी ।।8।।

एकवीरादिसंसेव्या चैकप्राभवशालिनी । ईकाररूपा चेशित्री चेप्सितार्थप्रदायिनी ।।9।।

ईदृगित्यविनिर्देश्या चेश्वरत्वविधायिनी । ईशानादिब्रह्ममयी चेशित्वाद्यष्टसिद्धिदा ।।10।।

ईक्षित्री क्षणसृष्टाण्डकोटिरीश्वरवल्लभा । ईडिता चेश्वरार्धांगशरीरेशाधिदेवता ।।11।।

ईश्वरप्रेरणकरी चेशताण्डवसाक्षिणी । ईश्वरोत्संगनिलया चेतिबाधाविनाशिनी ।।12।।

ईहाविरहिता चेशशक्तिरीषत्स्मितानना । लकाररूपा ललिता लक्ष्मीवाणीनिशेविता ।।13।।

लाकिनी ललनारूपा लसद्दाडिमपाटला । ललन्तिका लसत्फाला ललाटनयनार्चिता ।।14।।

लक्षणोज्ज्वलदिव्यांगी लक्षकोट्यण्डनायिका । लक्ष्यार्था लक्षणागम्या लब्धकामा लतातनु: ।।15।।

ललामराजदलिकालम्बिमुक्तालतांचिता । लम्बोदरप्रसूर्लभ्या लज्जाढ्या लयवर्जिता ।।16।।

ह्रींकाररूपा ह्रींकारनिलया ह्रींपदप्रिया । ह्रींकारबीजा ह्रींकारमन्त्रा ह्रींकारलक्षणा ।।17।।

ह्रींकारजपसुप्रीता ह्रींमति ह्रींविभूषणा । ह्रींशीला ह्रींपदाराध्या ह्रींगर्भा ह्रींपदाभिधा ।।18।।

ह्रींकारवाच्या ह्रींकारपूज्या ह्रींकारपीठिका । ह्रींकारवेद्या ह्रींकारचिन्त्या ह्रीं ह्रींशरीरिणी ।।19।।

हकाररूपा हलधृत्पूजिता हरिणेक्षणा । हरप्रिया हराराध्या हरिब्रह्मेन्द्रबन्दिता ।।20।।

हयारुढासेवितांघ्रिर्हयमेधसमर्चिता । हर्यक्षवाहना हंसवाहना हतदानवा ।।21।।

हत्यादिपापशमनी हरिदश्वादिसेविता । हस्तिकुम्भोत्तुंगकुचा हस्तिकृत्तिप्रियांगना ।।22।।

हरिद्राकुंकुमादिग्धा हर्यश्वाद्यमरार्चिता । हरिकेशसखी हादिविद्या हालामदालसा ।।23।।

सकाररूपा सर्वज्ञा सर्वेशी सर्वमंगला । सर्वकर्त्री सर्वभर्त्री सर्वहन्त्री सनातनी ।।24।।

सर्वानवद्या सर्वांगसुन्दरी सर्वसाक्षिणी । सर्वात्मिका सर्वसौख्यदात्री सर्वविमोहिनी ।।25।।

सर्वाधारा सर्वगता सर्वावगुणवर्जिता । सर्वारुणा सर्वमाता सर्वाभरणभूषिता ।।26।।

ककारार्था कालहन्त्री कामेशी कामितार्थदा । कामसंजीवनी कल्या कठिनस्तनमण्डला ।।27।।

करभोरू: कलानाथमुखी कचजिताम्बुदा । कटाक्षस्यन्दिकरुणा कपालिप्राणनायिका ।।28।।

कारुण्यविग्रहा कान्ता कान्तिधूतजपावलि: । कलालापा कम्बुकण्ठी करनिर्जितपल्लवा ।।29।।

कल्पवल्लीसमभुजा कस्तूरीतिलकांचिता । हकारार्था हंसगतिर्हाटकाभरणोज्ज्वला ।।30।।

हारहारिकुचाभोगा हाकिनी हल्यवर्जिता । हरित्पतिसमाराध्या हठात्कारहतासुरा ।।31।।

हर्षप्रदा हविर्भोक्त्री हार्दसन्तमसापहा । हल्लीशलास्यसन्तुष्टा हंसमन्त्रार्थरूपिणी ।।32।।

हानोपादाननिर्मुक्ता हर्षिणी हरिसोदरी । हाहाहूहूमुखस्तुत्या हानिवृद्धिविवर्जिता ।।33।।

हैयंगवीनहृदया हरिगोपारुणांशुका । लकाराख्या लतापूज्या लयस्थित्युद्भवेश्वरी ।।34।।

लास्यदर्शनसन्तुष्टा लाभालाभविवर्जिता । लंघ्येतराज्ञा लावण्यशालिनी लघुसिद्धिदा ।।35।।

लाक्षारससवर्णाभा लक्ष्मणाग्रजपूजिता । लभ्येतरा लब्धभक्तिसुलभा लांगलायुधा ।।36।।

लग्नचामरहस्तश्रीशारदापरिवीजिता । लज्जापदसमाराध्या लम्पटा लकुलेश्वरी ।।37।।

लब्धमाना लब्धरसा लब्धसम्पत्समुन्नति: । ह्रीँकारिणी च ह्रींकारी ह्रींमध्या ह्रींशिखामणि: ।।38।।

ह्रींकारकुण्डाग्निशिखा ह्रींकारशशिचन्द्रिका । ह्रींकारभास्कररुचि: ह्रींकाराम्भोदचंचला ।।39।।

ह्रींकारकन्दांकुरिका ह्रींकारैकपरायणा । ह्रींकारदीर्घिका हंसी ह्रींकारोद्यानकेकिनी ।।40।।

ह्रींकारारण्यहरिणी ह्रींकारावालवल्लरी । ह्रींकारपंजरशुकी ह्रींकारांगणदीपिका ।।41।।

ह्रींकारकन्दरासिंही ह्रींकाराम्भोजभृंगिका । ह्रींकारसुमनोमाध्वी ह्रींकारतरुमंजरी ।।42।।

सकाराख्या समरसा सकलागमसंस्तुता । सर्ववेदांततात्पर्यभूमिस्सदसदाश्रया ।।43।।

सकला सच्चिदानन्दा साध्वी सद्गतिदायिनी । सनकादिमुनिध्येया सदाशिवकुटुम्बिनी।।44।।

सकलाधिष्ठानरूपा सत्त्वरूपा समाकृति: । सर्वप्रपंचनिर्मात्री समानाधिकवर्जिता ।।45।।

सर्वोत्तुंगा संगहीना सगुणा सकलेष्टदा । ककारिणी काव्यलोला कामेश्वरमनोहरा ।।46।।

कामेश्वरप्राणनाडी कामेशोत्संगवासिनी । कामेश्वरालिंगितांगी कामेश्वरसुखप्रदा ।।47।।

कामेश्वरप्रणयिनी कामेश्वरविलासिनी । कामेश्वरतपस्सिद्धि: कामेश्वरमन:प्रिया ।।48।।

कामेश्वरप्राणनाथा कामेश्वरविमोहिनी । कामेश्वरब्राह्मविद्या कामेश्वरगृहेश्वरी ।।49।।

कामेश्वराह्लादकरी कामेश्वरमहेश्वरी । कामेश्वरी कामकोटिनिलया कांक्षितार्थदा ।।50।।

लकारिणी लब्धरूपा लब्धधीर्लब्धवांछिता । लब्धपापमनोदूरा लब्धाहंकारदुर्गमा ।।51।।

लब्धशक्तिर्लब्धदेहा लब्धैश्वर्यसमुन्नति: । लब्धवृद्धिर्लब्धलीला लब्धयौवनशालिनी ।।52।।

लब्धातिशयसर्वांगसौन्दर्या लब्धविभ्रमा । लब्धरागा लब्धपतिर्लब्धनानागमस्थिति: ।।53।।

लब्धभोगा लब्धसुखा लब्धहर्षाभिपूरिता । ह्रींकारमूतिर्ह्रींकारसौधश्रृंगकपोतिका ।।54।।

ह्रींकारदुग्धाब्धिसुधा ह्रींकारकमलेन्दिरा । ह्रींकारमणिदीपार्चिर्ह्रींकारतरुशारिका ।।55।।

ह्रींकारपेटकमणिर्ह्रींकारादर्शबिम्बिता । ह्रींकारकोशासिलता ह्रींकारास्थाननर्तकी ।।56।।

ह्रींकारशुक्तिकामुक्तामणिर्ह्रींकारबोधिता । ह्रींकारमयसौवर्णस्तम्भविद्रुमपुत्रिका ।।57।।

ह्रींकारवेदोपनिषदह्रींकाराध्वरदक्षिणा । ह्रींकारनन्दनारामनवकल्पकवल्लरी ।।58।।

ह्रींकारहिमवद्गंगा ह्रींकारार्णवकौस्तुभा । ह्रींकारमन्त्रसर्वस्वा ह्रींकारपरसौख्यदा ।।59।।

श्रीहयग्रीव उवाच

इत्येवं ते मयाssख्यातं देव्या नाम शतत्रयम् । रहस्यातिरहस्यत्वाद् गोपनीयं महामुने ।।60।।

शिववर्णानि नामानि श्रीदेवीकथितानि हि । शक्त्यक्षराणि नामानि कामेशकथितानि च ।।61।।

उभयाक्षरनामानि ह्युभाभ्यां कथितानि वै । तदन्यैर्ग्रथितं स्तोत्रमेतस्य सदृशं किमु ।।62।।

नानेन सदृशं स्तोत्रं श्रीदेवीप्रीतिदायकम् । लोकत्रयेsपि कल्याणं सम्भवेन्नात्र संशय: ।।63।।

सूत उवाच

इति हयमुखगीतं स्तोत्रराजं निशम्य प्रगलितकलुषोsभूच्चित्तपर्याप्तिमेत्य ।

निजगुरुमथ नत्वा कुम्भजन्मा तदुक्तं पुनरधिकरहस्यं ज्ञातुमेवं जगाद ।।64।।

अगस्त्य उवाच

अश्वानन महाभाग रहस्यमपि मे वद ।

शिववर्णानि कान्यत्र शक्तिवर्णानि कानि हि । उभयोरपि वर्णानि कानि मे वद देशिक ।।65।।

सूत उवाच

इति पृष्ट: कुम्भजेन हयग्रीवोsवदत्पुन: । तव गोप्यं किमस्तीह साक्षादम्बाकटाक्षत: ।।66।।

इदं त्वतिरहस्यं ते वक्ष्यामि श्रृणु कुम्भज । एतद्विज्ञानमात्रेण श्रीविद्या सिद्धिदा भवेत् ।।67।।

कत्रयं हद्वयं चैव शैवो भाग: प्रकीर्तित: । शक्त्यक्षराणि शेषाणि ह्रींकार उभयात्मक: ।।68।।

एवं विभागमज्ञात्वा श्रीविद्याजपशालिन: । न तेषां सिद्धिदा विद्या कल्पकोटिशतैरपि ।।69।।

चतुर्भिश्शिवचक्रैश्च शतिचक्रैश्च पंचभि: । नवचक्रैस्तु संसिद्धं श्रीचक्रं शिवयोर्वपु: ।।70।।

त्रिकोणमष्टकोणं च दशकोणद्वयं तथा । चतुर्दशारं चैतानि शक्तिचक्राणि पंच वै ।।71।।

बिन्दुश्चाष्टदलं पद्मं पद्मं षोडशपत्रकम् । चतुरश्रं च चत्वारि शिवचक्राण्यनुक्रमात् ।।72।।

त्रिकोणे बैन्दवं शिलष्टमष्टारेsष्टदलाम्बुजम् ।

दशारयोष्षोडशारं भूपुरं भुवनाश्रके । शैवानामपि शाक्तानां चक्राणां च परस्परम ।।73।।

अविनाभावसम्बन्धं यो जानाति स चक्रवित् । त्रिकोणरूपिणी शक्तिर्बिन्दुरूपश्शिवस्स्मृत: ।।74।।

अविनाभावसम्बन्धस्तस्माद्विन्दुत्रिकोणयो: । एवं विभागमज्ञात्वा श्रीचक्रं यस्समर्चयेत् ।।75।।

न तत्फलमवाप्नोति ललिताम्बा न तुष्यति । ये च जानन्ति लोकेsस्मिन् श्रीविद्याचक्रवेदिन: ।।76।।

सामान्यवेदिनस्ते वै विशेषज्ञोsतिदुर्लभ: । स्वयं विद्याविशेषज्ञो विशेषज्ञं समर्चयेत् ।।77।।

तस्मै देयं ततो ग्राह्यं श्रीविद्याचक्रवेदिना । अन्धं तम: प्रविशन्ति ये ह्यविद्यामुपासते ।।78।।

इति श्रुतिरपाहैतानविद्योपासकान् पुन: । विद्यानुपासकानेव निन्दत्यारुणिकी श्रुति: ।।79।।

अश्रृता सश्रृतासश्च यज्वानो येsप्ययज्वन: । स्वर्यन्तो नानपेक्षन्त इन्द्रमग्निं च ये विदु: ।।80।।

सिकता इव संयान्ति रश्मिभिस्समुदीरिता: । अस्माल्लोकादमुष्माच्चेत्याह चारण्यकी श्रुति: ।।81।।

यस्य नो पश्चिमं जन्म यदि वा शंकरस्स्वयम् । तेनैव लभ्यते विद्या श्रीमत्पंचदशाक्षरी ।।82।।

इति तन्त्रेषु बहुधा विद्याया महिमोच्यते । मोक्षैकहेतुविद्या तु श्रीविद्यैव न संशय: ।।83।।

न शिल्पादिज्ञानयुक्ते विद्वच्छब्द: प्रयुज्यते । मोक्षैकहेतुविद्या सा श्रीविद्यैव न संशय: ।।84।।

तस्माद् विद्याविदेवात्र विद्वान् विद्वानितीर्यते । स्वयं विद्याविशेषज्ञो विद्यामाहात्म्यवेद्यपि ।।85।।

विद्याविदं नार्चयेच्चेत् को वा तं पूजयेज्जन: । प्रसंगादेतदुक्तं ते प्रकृत श्रृणु कुम्भज ।।86।।

य: कीर्तयेत्सकृद्भक्त्या दिव्यं नाम्नां शतत्रयम् । तस्य पुण्यफलं वक्ष्ये विस्तरेण घटोद्भव ।।87।।

रहस्यनामसाहस्त्रपाठे यत्फलमीरितम् । तत्कोटिकोटिगुणितमेकनामजपाद् भवेत् ।।88।।

कामेश्वराभ्यां तदिदं कृतं नामशतत्रयम् । नान्येन तुलयेदेत्स्तोत्रेणान्यकृतेन तु ।।89।।

श्रिय: परंपरा यस्य भाविनी तूत्तरोत्तरम् । तेनैव लभ्यते नाम्नां त्रिशती सर्वकामदा ।।90।।

अस्या नाम्नां त्रिशत्यास्तु महिमा केन वर्ण्यते । या स्वयं शिवयोर्वक्त्रपद्माभ्यां परिनिस्सृता ।।91।।

नित्या षोडशिकारूपापान्विप्रानादौ तु भोजयेत् । अभ्यक्तान् गन्धतैलेन स्नातानुष्णेन वारिणा ।।92।।

अभ्यर्च्य वस्त्रगन्धाद्यै: कामेश्वर्यादिनामभि: । सूपापूपै: शर्कराद्यै: पायसै: फलसंयुतै: ।।93।।

विद्याविदो विशेषेण भोजयेत्षोडश द्विजान् । एवं नित्यबलिं कुर्यादादौ ब्राह्मणभोजने ।।94।।

पश्चात्रिशत्या नाम्नां तु ब्राह्मणान् क्रमशोsर्चयेत् । तैलाभ्यंगादिकं दद्याद्विभवे सति भक्तित: ।।95।।

शुक्लप्रतिपदारभ्य पौर्णमास्यवधि: क्रमात् । दिवसे दिवसे विप्रा भोज्या विंशतिसंख्यया ।।96।।

दशभि: पंचभिर्वापि त्रिभिरेकेन वा दिनै: । त्रिंशत्षष्टिं शतं विप्रान् भोजयेत् त्रिशतं क्रमात् ।।97।।

एवं य: कुरुते भक्त्या जन्ममध्ये सकृन्नर: । तस्यैवं सफलं जन्म मुक्तिस्तस्य करे स्थिता ।।98।।

रहस्यनामसाह्स्त्रैरर्चनेप्येवमेव हि । आदौ नित्यबलिं कुर्यात् पश्चाद् ब्राह्मणभोजनम् ।।99।।

रहस्यनामसाहस्त्रमहिमा यो मयोदित: । स शीकराणुरत्रैकनाम्नो महिमवारिधे: ।।100।।

वाग्देवीरचिते नामसाहस्त्रे यद्यदीरितम् । तत्तत्फलमवाप्नोति नाम्नोsप्येकस्य कीर्तनात् ।।101।।

एतदन्यैर्जपैस्स्तोत्रैरर्चनैर्यत्फलं भवेत् । तत्फलं कोटिगुणितं भवेन्नामशतत्रयात् ।।102।।

रहस्यनामसाहस्त्रकोट्यावृत्यास्तु यत्फलम् । तद्भवेत्कोटिगुणितं नामत्रिशतकीर्तनात् ।।103।।

वाग्देवीरचिते स्तोत्रे तादृशो महिमा यदि । साक्षात्कामेशकामेशीकृतेेsस्मिन् गृह्यतामिति ।।104।।

सकृत्संकीर्तनादेव नाम्नामस्मिन् शतत्रये । भवेच्चित्तस्य पर्याप्तिर्नूनमन्यानपेक्षिणी ।।105।।

न ज्ञातव्यमितोप्यन्यन् न जप्तव्यं च कुम्भज । यदसाध्यतमं कार्यं तत्तदर्थमिदं जपेद् ।।106।।

तत्तत्सिद्धिमवाप्नोति पश्चात्कार्यं परीक्षयेत् । ये ये प्रयोगास्तन्त्रेषु तैस्तैर्यत्साध्यते ध्रुवम् ।।107।।

तत्सर्वं सिद्धयति क्षिप्रं नामत्रिशतकीर्तनात् । आयुष्करं पुष्टिकरं पुत्रदं वश्यकारकम् ।।108।।

विद्याप्रदं कीर्तिकरं सुकवित्वप्रदायकम् । सर्वसम्पत्प्रदं सर्वभोगदं सर्वसौख्यदम् ।।109।।

सर्वाभीष्टप्रदं चैव देवीनामशतत्रयम् । एतज्जपपरो भूयान्नान्यदिच्छेत्कदाचन ।।110।।

एतत्कीर्तनसन्तुष्टा श्रीदेवी ललिताम्बिका । भक्तस्य यद्यदिष्टं स्यात्तत्तत्पूरयते ध्रुवम् ।।111।।

तस्मात्कुम्भोद्भवमुने ! कीर्तय त्वमिदं सदा । अपरं किंचिदपि ते बोद्धव्यं नावशिष्यते ।।112।।

इति ते कथितं स्तोत्रं ललिताप्रीतिदायकम् । नाविद्यावेदिने ब्रूयान्नाभक्ताय कदाचन ।।113।।

न शठाय न दुष्टाय नाविश्वासाय कर्हिचित् । यो ब्रूयात् त्रिशतीं नाम्नां तस्यानर्थो महान् भवेत् ।।114।।

इत्याज्ञा शांकरी प्रोक्ता तस्माद् गोप्यमिदं त्वया । ललिताप्रेरितेनैव मयोक्तं स्तोत्रमुत्तमम् ।।115।।

रहस्यनामसाहस्त्रादतिगोप्यमिदं मुने । एवमुक्त्वा हयग्रीव: कुम्भजं तापसोत्तमम् ।।116।।

स्तोत्रेणानेन ललितां स्तुत्वा त्रिपुरसुन्दरीम् । आनन्दलहरीमग्नमानसस्समवर्तत ।।117।।

।। इति श्री ब्रह्माण्डपुराणे श्रीहयग्रीवागस्त्यसंवादे श्रीललितोपाख्याने स्तोत्रखण्डे श्रीललिताम्बा त्रिशतीस्तोत्ररत्नं सर्वसम्पूर्तिकरं सम्पूर्णम् ।।