श्री गणपति अथर्वशीर्ष !

समस्त साधनाओं के लिए पंजिकरण खोल दिए गए हैं, अब आप वेबसाईट पर अपना खाता बनाकर साधनाओं हेतु पंजिकरण कर सकते हैं ! समस्त दीक्षा/साधना/अनुष्ठान एवं साधनापूर्व प्रशिक्षण की त्वरित जानकारियों हेतु हमारी मोबाईल ऐप इंस्टाल करें ! मोबाईल ऐप इंस्टाल करने हेतु क्लिक करें ! या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता, नमस्तस्यै, नमस्तस्यै, नमस्तस्यै नमो नमः । माँ भगवती आप सब के जीवन को अनन्त खुशियों से परिपूर्ण करें ।

ॐ नमस्ते गणपतये ।।
त्वमेव प्रत्यक्षं तत्त्वमसि। त्वमेव केवलं कर्ताऽसि । त्वमेव केवलं धर्ताऽसि । त्वमेव केवलं हर्ताऽसि ।
त्वमेव सर्वं खल्विदं ब्रह्मासि । त्वं साक्षादात्माऽसि नित्यम् ।। १।।

ऋतं वच्मि ।। सत्यं वच्मि ।।२।।

अव त्वं माम् । अव वक्तारम् । अव श्रोतारम् । अव दातारम् । अव धातारम् । अवानूचानमवशिष्यम् । अव पश्चात्तात् । अव पुरस्तात् । अवोत्तरात्तात् । अव दक्षिणात्तात् । अव चोर्ध्वात्तात् । अवाधरात्तात् । सर्वतो मां पाहि पाहि समंतात् ।।३।।

त्वं वाङ्ग्मयस्त्वं चिन्मयः । त्वमानंदमयस्त्वं ब्रह्ममयः । त्वं सच्चिदानंदाद्वितीयोऽसि ।
त्वं प्रत्यक्षं ब्रह्मासि । त्वं ज्ञानमयो विज्ञानमयोऽसि ।।४।।

सर्वं जगदिदं त्वत्तो जायते । सर्वं जगदिदं त्वत्तस्तिष्ठति ।
सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं त्वयि प्रत्येति ।
त्वं भूमिरापोऽनलोऽनिलो नभः । त्वं चत्वारि वाक्पदानि ।।५।।

त्वं गुणत्रयातीतः । त्वमवस्थात्रयातीतः । त्वं देहत्रयातीतः । त्वं कालत्रयातीतः ।
त्वं मूलाधारः स्थिथोऽसि नित्यम् ।
त्वं शक्तित्रयात्मकः । त्वां योगिनो ध्यायंति नित्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं इन्द्रस्त्वं अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रह्मभूर्भुवःस्वरोम् ।। ६।।

गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरम् ।
अनुस्वारः परतरः । अर्धेन्दुलसितम् । तारेण ऋद्धम् । एतत्तव मनुस्वरूपम् । गकारः पूर्वरूपम्। अकारो मध्यमरूपम् ।
अनुस्वारश्चान्त्यरूपम् । बिन्दुरुत्तररूपम् । नादः संधानम् । संहितासंधिः । सैषा गणेशविद्या । गणकऋषिः । निचृद्गायत्रीच्छंदः । गणपतिर्देवता । ॐ गं गणपतये नमः ।। ७।।

ॐ एकदंताय विद्महे वक्रतुण्डाय धीमहि तन्नो दंतिः प्रचोदयात् ।। ८।।

एकदंतं चतुर्हस्तं पाशमंकुशधारिणम् ।। रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ।।
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ।। रक्तगंधानुलिप्तांगं रक्तपुष्पैः सुपूजितम् ।।
भक्तानुकंपिनं देवं जगत्कारणमच्युतम् ।। आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ।। एवं ध्यायति यो नित्यं स योगी योगिनां वरः ।।९।।

नमो व्रातपतये । नमो गणपतये । नमः प्रमथपतये । नमस्तेऽस्तु लंबोदरायैकदंताय ।
विघ्ननाशिने शिवसुताय । श्रीवरदमूर्तये नमो नमः ||१०||