स्वयंसिद्ध श्री कनक दुर्गा आनन्द लहरी सिद्ध स्तोत्रं !

वन्दे गुरुपदद्वन्द्वमवाङ्मानसगोचरं ।
रक्तशुक्लप्रभामिश्रमतर्क्यं त्रैपुरं महः ॥

अखण्डमण्डलाकारं विश्वं व्याप्य व्यवस्थितं ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥

शिवे सेवासक्ताश्रितभरणकार्यैकचतुरे शिरोभिर्वेदानां चिरविनुतकल्याणचरिते ।
स्मितज्योत्स्नालीलारुचिररुचिमच्चन्द्रवदने जगन्मातर्मातर्जय कनकदुर्गे भगवति ॥ १॥

नगाधीशट्कन्ये नलिनदळसङ्काशनयने सुगीतैर्गन्धर्वैस्सुरयुवतिभिश्चानुचरिते ।
अगण्यैराम्नायैरपि गुणनिकायैर्विलसिते जगन्मातर्मातर्जय कनकदुर्गे भगवति ॥ २॥

निजश्रेयस्कामैर्निटलघटितां च तत्करपुटैः स्तुवद्भिस्सानन्दं श्रुतिमधुरवाचां विरचनैः ।
असङ्ख्यैर्ब्रह्माद्यैरमरसमुदायैः परिवृते दया कर्तव्या ते मयि कनकदुर्गे भगवति ॥ ३॥

भवत्पादन्यासोचितकनकपीठीपरिसरे पतन्तस्साष्टाङ्गं मुदितहृदया ब्रह्मऋषयः ।
न वाञ्छन्ति स्वर्गं न च कमलसम्भूतभवनं न वा मुक्तेर्मार्गं ननु कनकदुर्गे भगवति ॥ ४॥

शचीस्वाहादेवीप्रमुखहरिदीशानरमणी- मणीहस्तन्यस्तैर्मणिखचितपात्रैरनुदिनम् ।
ससङ्गीतं नीराजितचरणपङ्केरुहयुगे कृपापूरं मह्यं दिश कनकदुर्गे भगवति ॥ ५॥

प्रवर्षत्यश्रान्तं बहुगुणमभीष्टार्थनिचयं स्वरूपध्यातॄणां चिकुरनिकुरुम्बं तव शिवे ।
अपामेकं वर्षं वितरति कदाचिज्जलधरो द्वयोस्साम्यं किं स्यान्ननु कनकदुर्गे भगवति ॥ ६॥

कृशाङ्गं स्वारातिं तुहिनकरमावृत्य तरसा स्थितं मन्ये धन्ये तिमिरनिकरं ते कचभरम् ।
सहायं कृत्वायं हरमनसि मोहान्धतमसं वितेने कामः श्रीमति कनकदुर्गे भगवति ॥ ७॥

तमो नाम्ना सम्यग्गळितपुनरुद्वान्तरुचिर- प्रभाशेषं भानोरिव तरुणिमानं धृतवतः ।
त्वदीये सीमन्ते कृतपदमिदं कुङ्कुमरजो- वसेदश्रान्तं मे हृदि कनकदुर्गे भगवति ॥ ८॥

त्रिलोकी वैचित्रीजनकघनसौन्दर्यसदनं विराजत्कस्तूरीतिलकमपि फाले विजयते ।
यदालोकव्रीडाकुपित इव जूटे पशुपते- र्विलीनो बालेन्दुर्ननु कनकदुर्गे भगवति ॥ ९॥

पराभूतश्चेशाळिकनयनकीलाविलसना- द्विसृज्य प्राचीनं भुवनविनुतं कार्मुकवरम् ।
हरं जेतुं त्वद्भ्रूच्छलमपरबाणासनयुगं स्मरो धत्ते सर्वेश्वरि कनकदुर्गे भगवति ॥ १०॥

त्वदीयभ्रूवल्लीच्छलमदनकोदण्डयुगळी समीपे विभ्राजत्तव सुविपुलं नेत्रयुगळम् ।
विजेतुं स्वारातिं विकचनवनीलोत्पलशर- द्वयं तेनानीतं खलु कनकदुर्गे भगवति ॥ ११॥

दरिद्रं श्रीमन्तं जरठमबलानां प्रियतमं जडं सङ्ख्यावन्तं समरचलितं शौर्यकलितम् ।
मनुष्यं कुर्वन्तोऽमरपरिवृढं नित्यसदयाः कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १२॥

पुरारातेर्बाणाः कुसुमशरतूणीरगळिता नतानां सन्त्राणे निरवधिसुधावीचिनिचयाः ।
वियद्गङ्गाभङ्गा बहुदुरितजालावृतिमतां कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १३॥

दरिद्राणां कल्पद्रुमसुममरन्दोदकझरा अविद्याध्वान्तानामरुणकिरणानां विहृतयः ।
पुरा पुण्यश्रेणीसुललितलताचैत्रसमयाः कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १४॥

गजन्तो वाहन्तः कनकमणिनिर्माणविलसा रथन्तश्छत्रन्तो बलयुत भटन्तः प्रतिदिनम् ।
स्वभक्तानां गेहाङ्गणभुवि चरन्तो निरुपमाः कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १५॥

पुरारातेरङ्गं पुलकनिकुरम्बैः परिवृतं मुनिव्रातैर्ध्यातं मुकुळयुतकल्पद्रुमनिभम् ।
श्रयन्तश्चानन्दं विचलदलिपोता इव चिरं कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १६॥

हरिब्रह्मेन्द्राद्यैः श्रुतिविदितगीर्वाणनिचयै- र्वसिष्ठव्यासाद्यैरपि च परमब्रह्मऋषिभिः ।
समस्तैराशास्यास्सकलशुभदा यद्विहृतयः कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १७॥

विरिञ्चिर्यद्योगाद्विरचयति लोकान् प्रतिदिनं विधत्ते लक्ष्मीशो विविधजगतां रक्षणविधिम् ।
ललाटाक्षो दक्षोऽभवदखिलसंहारकरणे कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १८॥

उरोभागे शम्भोर्विकचनवनीलोत्पलदळ- स्रजं सङ्गृह्णन्तो मृगमदरसं फालफलके ।
शिरोऽग्रे गङ्गायां रविदुहितृसन्देहजनकाः कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ १९॥

मदीयश्रीलीलाहरणपटुपाटच्चरमिति क्वता हन्तागन्तुं श्रुतिविमलनीलोत्पलमिव ।
तदभ्यर्णं यातास्सहजनिजवैशाल्यकलिताः कटाक्षास्ते कार्या मयि कनकदुर्गे भगवति ॥ २०॥

कळङ्की मासान्ते वहति कृशतां नित्यजड इत्यमुं चन्द्रं हित्वा तव वदनचन्द्राश्रितमिदम् ।
स्थितं जीवं जीवद्वितयमिति मन्ये नयनयो- र्युगं कामारातेस्सति कनकदुर्गे भगवति ॥ २१॥

प्रसादो मय्यास्ते मयि च सहजं सौरभमिदं तुला मे मैतस्येत्यविरतविवादाभिरतयोः ।
निवृत्ता नेदानीमपि च रिपुता ग्लौनळिनयो- स्त्वदास्यं दृष्ट्वा श्रीमति कनकदुर्गे भगवति ॥ २२॥

मनोजातादर्शप्रतिमनिजलीलौ तव शिवे कपोलौ भूयास्तां मम सकलकल्याणजनकौ ।
श्रितश्रीताटङ्कद्वितयरुचयो यत्र मिळिता- स्सुधारुक्सूर्याभा इव कनकदुर्गे भगवति ॥ २३॥

त्रयी स्तुत्ये नित्ये तव वदनपङ्केरुहभव- त्सुगन्धायातश्रीप्रचलदळिनीवारणधिया ।
लसन्नासाकारे वहसि सहसा चम्पकतुलां न तत्सौन्दर्यार्थं ननु कनकदुर्गे भगवति ॥ २४॥

वहत्वं कारुण्यं वरकमलरागाह्वयमणि- स्सुधापूरं सारं सुरुचिरमृदुत्वं यदि वहेत् ।
तदा लब्धुं योग्यो भवति भवदीयाधरतुलां जगद्रक्षादीक्षावति कनकदुर्गे भगवति ॥ २५॥

लसन्नासाभूषाग्रगपृथुलमुक्तामणियुतं नितान्तारुण्यन्तत्तव दशनवासो विजयते ।
सुधासिन्धोर्मध्ये निपतित सुधाबिन्दुसहित- प्रवाळश्रीचोरं ननु कनकदुर्गे भगवति ॥ २६॥

अयोग्या इत्यार्ये तव दशनसाम्याय कविभि- र्विमुक्ता मुक्ता इत्यधिकविदिता मौक्तिकगणाः ।
दशामल्पाङ्गत्वा तदनुमुखताम्बूलसहिता गतास्तत्साहित्यं खलु कनकदुर्गे भगवति ॥ २७॥

जितोऽहं पार्वत्या मृदुलतरवाणीविलसनैः कथं दृप्यस्यम्बाधरसमतया बिम्ब कथय ।
इति क्रोधाच्चञ्च्वा दळितवदने रक्तिमयुतः शुकोऽयं विज्ञानी खलु कनकदुर्गे भगवति ॥ २८॥

फलं बिम्बस्येदं भवति भवदीयाधरतुला कृताळं तन्माद्यं वहति मतिरस्येति विदिता ।
न चेत्तस्मिन् भुक्ते सुमति कवितानामपि नृणां कथं स्यात्तन्माद्यं भुवि कनकदुर्गे भगवति ॥ २९॥

अतुल्यं ते कण्ठं हरतरुणि दृष्ट्वा सुकवयः  प्रभाषन्ते शङ्खं परिहसनपात्रं भवति तत् ।
स्वरूपध्यातॄणां स भवति निधिश्शङ्ख इतिचे- दसन्देहं स्थाने खलु कनकदुर्गे भगवति ॥ ३०॥

आकण्ठं ते कण्ठस्थितकनकसूत्रं विजयते हरो यत्सामर्थ्यादमृतमिव पीत्वापि गरळम् ।
समाख्यां विख्यातां समलभत मृत्युञ्जय इति त्रयीवेद्यक्रीडावति कनकदुर्गे भगवति ॥ ३१॥

चिरं ध्यात्वा ध्यात्वा सकलविबुधाभीष्टनिचयं ततस्त्वल्लावण्यामृतजलधिसम्प्राप्तजनने ।
भुजाकारेणैके भुवनविनुते कल्पकलते श्रियै मे भूयास्तां ननु कनकदुर्गे भगवति ॥ ३२॥

विराजत्केयूरद्वयमणिविभाभानुकिरणै- र्नितान्तव्याकोशीकृतमदनजिन्नेत्रकमलौ ।
विभोः कण्ठाश्लेषाद्विपुलपुलकाङ्कूरजनकौ भुजौ मे त्रातारौ ननु कनकदुर्गे भगवति ॥ ३३॥

सुपर्वारामान्तःस्फुरितसहकारद्रुमलता- समग्रश्रीजाग्रत्किसलयसगर्वोद्यमहरौ ।
करौ ते भूयास्तां मम शुभकरौ कान्तिनिकरा- करौ निश्शङ्कं शाङ्करि कनकदुर्गे भगवति ॥ ३४॥

प्रशस्तौ त्रैलोक्ये बहुळदनुजत्रासविचल- न्मरुन्मस्तन्यस्तौ जननि तव हस्तौ हृदि भजे ।
स्मरो यत्सङ्काशा इति किसलयानेव धृतवान् त्रिलोकी जेताऽऽसीत्खलु कनकदुर्गे भगवति ॥ ३५॥

पुरारातेः पाणिग्रहणसमये मौक्तिकचयान् विधातुं तच्छीर्षे जनकवचनादुन्नमितयोः ।
ययोरूपं दृष्ट्वाऽभवदुदितलज्जा सुरनदी कदार्तित्रातारौ मम कनकदुर्गे भगवति ॥ ३६॥

स्फुरन्तो निश्शङ्कं पुरहरनिरातङ्कविजय- क्रियायात्रोद्युक्तस्मरबिरुदपाठा इव भृशं ।
झणत्कारारावाः कनकवलयानां तव शिवे वितन्वन्तु श्रेयो मम कनकदुर्गे भगवति ॥ ३७॥

कुचौ ते रूपश्रीविजितलकुचौ मे शुभकरौ भवेतां व्याकीर्णौ प्रकटतरमुक्तामणिरुचौ ।
विरिञ्चाद्या देवा यदुदितसुधापातुरनिशं सुनम्रास्सेनान्यो ननु कनकदुर्गे भगवति ॥ ३८॥

अतुल्यं ते मध्यं वदति हरिमध्येन सदृशं जगत्तन्नो युक्तं जननि खलु तद्रूपकलने ।
कृताशः पञ्चास्यो भवति तव वाहः प्रतिदिनं जगत्सर्गक्रीडावति कनकदुर्गे भगवति ॥ ३९॥

असौ पुन्नागस्य प्रसवमृदुशाखाश्चलगतं तपःकृत्वा लेभे जननि तव नाभेः सदृशताम् ।
प्रमत्तः पुन्नागप्रसव इतरस्तावक गते- स्तुलामाप्तुं वाञ्छत्यपि कनकदुर्गे भगवति ॥ ४०॥

त्रिलोकीवासाञ्चद्युवतिजनतादुर्गमभव- न्नितम्बश्रीचौर्यं कृतवदिति सञ्चित्य पुलिनम् ।
सरो बाह्यञ्चक्रे जननि भवदीयस्मरणतो झरेवाधीरैशा जननि कनकदुर्गे भगवति ॥ ४१॥

जितोऽहं पार्वत्या मृदुतरगतीनां विलसनैः तदूर्वोस्सौन्दर्यं सहजमधिगन्तुं जडतया ।
कृतारम्भा रम्भा इति विदळिताऽऽसां वनमयं करी सामर्षः श्रीकरि कनकदुर्गे भगवति ॥ ४२॥

प्रविष्टा ते नाभीबिलमसितरोमावळिरियं कटीचञ्चत्काञ्चीगुणविहितसौत्रामणमणेः ।
रुचां रेखेवास्ते रुचिरतरमूर्ध्वायनगता श्रितश्रेणीसम्पत्करि कनकदुर्गे भगवति ॥ ४३॥

अनिर्वाच्यं जङ्घारुचिररुचिसौन्दर्यविभवं कथं प्राप्तुं योग्यस्तव कलमगर्भो गिरिसुते ।
तदीयं सौभाग्यं कणिशजननैकावधि सुधी- जनैश्चिन्ताकार्या ननु कनकदुर्गे भगवति ॥ ४४॥

सदा मे भूयात्ते प्रपदममिताभीष्टसुखदं सुरस्त्रीफालाग्रच्युतमृगमदानां समुदयम् ।
अशेषं निर्धौतः प्रणयकलहे यत्र पुरजि- ज्जटा गङ्गानीरैर्ननु कनकदुर्गे भगवति ॥ ४५॥

मनोज्ञाकारं ते मधुरनिनदं नूपुरयुगं ग्रहीतुं विख्यातान् गतिविलसनानामतिरयान् ।
स्थितम्मन्ये हंसद्वयमिति न चेद्धंसकपदं कथं धत्ते नाम्ना ननु कनकदुर्गे भगवति ॥ ४६॥

त्वदीयं पादाब्जद्वयमचलकन्ये विजयते सुरस्त्रीकस्तूरीतिलकनिकरात्यन्तसुरभि ।
भ्रमन्तो यत्रार्याप्रकरहृदयेन्दिन्दिरगणा- स्सदा माद्यन्ति श्रीमति कनकदुर्गे भगवति ॥ ४७॥

अपर्णे ते पादावतनुतनुलावण्यसरसी समुद्भूते पद्मे इति सुकविभिर्निश्चितमिदम् ।
न चेद्गीर्वाणस्त्रीसमुदयललाटभ्रमरकाः कथं तत्रासक्ता ननु कनकदुर्गे भगवति ॥ ४८॥

रमावाणीन्द्राणीमुखयुवतिसीमन्तपदवी- नवीनार्कच्छायासदृशरुचि यत्कुङ्कुमरजः ।
स्वकाङ्गाकारेण स्थितमिति भवत्पादकमल- द्वये मन्ये शम्भोस्सति कनकदुर्गे भगवति ॥ ४९॥

दवाग्निं नीहारं गरळममृतं वार्धिमवनी- स्थलं मृत्युम्मित्रं रिपुमपि च सेवाकरजनम् ।
विशङ्कं कुर्वन्तो जननि तव पादाम्बुरुहयोः प्रणामास्संस्तुत्या मम कनकदुर्गे भगवति ॥ ५०॥

जलप्राया विद्या हृदि सकलकामाः करगताः महालक्ष्मीर्दासी मनुजपतिवर्यास्सहचराः ।
भवत्यश्रान्तं ते पदकमलयोर्भक्तिसहितां नतिङ्कुर्वाणानां ननु कनकदुर्गे भगवति ॥ ५१॥

तव श्रीमत्पादद्वितयगतमञ्जीरविलस- न्मणिच्छायाच्छन्नाकृतिभवतियत्फालफलकम् ।
स तत्रैवाशेषावनिवहनदीक्षासमुचितं वहेत्पट्टं हैमं ननु कनकदुर्गे भगवति ॥ ५२॥

तनोतु क्षेमं त्वच्चरणनखचन्द्रावळिरियं भवत्प्राणेशस्य प्रणयकलहारम्भसमये ।
यदीयज्योत्स्नाभिर्भवति नितरां पूरिततनु- श्शिरोऽग्रे बालेन्दुर्ननु कनकदुर्गे भगवति ॥ ५३॥

समस्ताशाधीशप्रवरवनिताहस्तकमलै- स्सुमैः कल्पद्रूणां निरतकृतपूजौ निरुपमौ ।
नतानामिष्टार्थप्रकरघटनापाटवयुतौ नमस्यामः पादौ तव कनकदुर्गे भगवति ॥ ५४॥

पुरा बाल्ये शीताचलपरिसरक्षोणिचरणे ययोस्स्पर्शं लब्ध्वा मुदितमनसः कीटनिचयान् ।
विलोक्य श्लाघन्ते विबुधसमुदायाः प्रतिदिनं नमामस्तौ पादौ ननु कनकदुर्गे भगवति ॥ ५५॥

नराणामज्ञानां प्रशमयितुमन्तःस्थतिमिरा- ण्यलक्ष्मीसन्तापं गमितमनुजान् शीतलयितुम् ।
समर्थान्निर्दोषांश्चरणनखचन्द्रानभिनवान् नमामस्सद्भक्त्या तव कनकदुर्गे भगवति ॥ ५६॥

मुकुन्दब्रह्मेन्द्रप्रमुखबहुबर्हिर्मुखशिखा- विभूषाविभ्राजन्मघवमणिसन्दर्भरुचिभिः ।
विशङ्कं साकं त्वच्चरणनखचन्द्रेषुघटितं कवीन्द्रैः स्तोतव्यं तव कनकदुर्गे भगवति ॥ ५७॥

नखानां धावळ्यं निजमरुणिमानञ्च सहजं नमद्गीर्वाणस्त्रीतिलकमृगनाभिश्रियमपि ।
वहन्तौ सत्त्वादित्रिगुणरुचिसारानिव सदा नमस्यामः पादौ तव कनकदुर्गे भगवति ॥ ५८॥

मणिश्रेणीभास्वत्कनकमयमञ्जीरयुगळी- झणत्कारारावच्छलमधुरवाचां विलसनैः ।
अभीष्टार्थान् दातुं विनतजनताह्वानचतुरा- विव ख्यातौ पादौ तव कनकदुर्गे भगवति ॥ ५९॥

नमद्गीर्वाणस्त्रीतिलकमृगनाभीद्रवयुतं नखच्छायायुक्तं जननि तव पादाम्बु जयति ।
समञ्चत्काळिन्दीझरसलिलसम्म्मिश्रितविय- न्नदीवारीव श्रीकरि कनकदुर्गे भगवति ॥ ६०॥

सुरश्रेणीपाणिद्वितयगतमाणिक्यकलशै- र्धृतं हेमाम्भोजप्रकरमकरन्देन मिळितं ।
सतां वृन्दैर्वन्द्यं चरणयुगसङ्क्षाळनजलं पुनात्वस्मान्नित्यं तव कनकदुर्गे भगवति ॥ ६१॥

विरावन्मञ्जीरद्वयनिहितहीरोपलरुचि- प्रसादे निर्भेदं प्रथितपरमब्रह्मऋषिभिः ।
शिरोभागैर्धार्यं पदकमलनिर्णेजनजलं वसन्मे शीर्षाग्रे तव कनकदुर्गे भगवति ॥ ६२॥

समीपे माणिक्यस्थगितपदपीठस्य नमतां शिरस्सु त्वत्पादस्नपनसलिलं यन्निपतति ।
तदेवोच्चस्थानस्थितिकृदभिषेकाम्बु भवति प्रभावोऽयं वर्ण्यस्तव कनकदुर्गे भगवति ॥ ६३॥

नृणान्दीनानां त्वच्चरणकमलैकाश्रयवतां महालक्ष्मीप्राप्तिर्भवति न हि चित्रास्पदमिदम् ।
समाश्रित्याम्भोजं जडमपि च रेखाकृतिधरं श्रियो नित्यं धामाजनि कनकदुर्गे भगवति ॥ ६४॥

खगोत्तंसा हंसास्तव गतिविलासेन विजिता- स्सलज्जास्तत्तुल्यं गमनमधिगन्तुं सकुतुकाः ।
भजन्ते स्रष्टारं रथवहन एवैकनिरता मनोजातारातेस्सति कनकदुर्गे भगवति ॥ ६५॥

जगन्मातर्भव्याङ्गुळिविवरमार्गेषु गळितं चतुर्धा ते पादाम्बुजसलिलमेतद्विजयते ।
प्रदातुं धर्मार्थप्रमुखपुरुषार्थद्वययुगं चतुर्मूर्त्या विद्धाविव कनकदुर्गे भगवति ॥ ६६॥

अजोऽयं श्रीशोऽयं सुरपरिवृढोऽयं रविरयं शशाङ्कोऽयं कोऽयं सकलजलधीनां पतिरयम् ।
इति त्वां सन्द्रष्टुं समुपगतदेवाः परिचरै- र्जनैर्विज्ञाप्यन्ते खलु कनकदुर्गे भगवति ॥ ६७॥

महापीठासीनां मघवमुखबर्हिर्मुखसखी- निकायैस्संसेव्यां करतलचलच्चामरयुतैः ।
प्रदोषे पश्यन्तीं पशुपतिमहाताण्डवकलां भजे त्वां श्रीमाहेश्वरि कनकदुर्गे भगवति ॥ ६८॥

परञ्ज्योतिस्तज्ज्ञास्सुरतरुलतां दुर्गतजना महाज्वालामग्नेर्भुवनभयदा राक्षसगणाः ।
ललाटाक्षस्साक्षादतनुजयलक्ष्मीमविरतं हृदि ध्यायन्ति त्वां कनकदुर्गे भगवति ॥ ६९॥

समुद्यद्बालार्कायुतशतसमानद्युतिमतीं शरद्राकाचन्द्रप्रतिमदरहासाञ्चितमुखीम् ।
सखीं कामारातेश्चकितहरिणीशाबनयनां सदाहं सेवे त्वां हृदि कनकदुर्गे भगवति ॥ ७०॥

तपःकृत्वा लेभे त्रिपुरमथनस्त्वां प्रियसखीं तपस्यन्ती प्राप्ता त्वमपि गिरिशं प्राणदयितम् ।
तदेवं दाम्पत्यं जयति युवयोर्भीतधवयोः कविस्तुत्यं नित्यं ननु कनकदुर्गे भगवति ॥ ७१॥

विभोर्जानासि त्वं विपुलमहिमानं पशुपते- स्स एव ज्ञाता ते चरितजलराशेरनवधेः ।
न हि ज्ञातुन्दक्षो भवति भवतोस्तत्वमितर- स्त्रीलोकीसन्धानेष्वपि कनकदुर्गे भगवति ॥ ७२॥

न विष्णुर्नब्रह्मा न च सुरपतिर्नापि सविता न चन्द्रो नोवायुर्विलसति हि कल्पान्तसमये ।
तदा नाट्यङ्कुर्वंस्तव रमण एको विजयते त्वया साकं लोकेश्वरि कनकदुर्गे भगवति ॥ ७३॥

धनुश्चक्रे मेरुं गुणमुरगराजं शितशरं रमाधीशञ्चापि त्रिपुरमथनेन त्रिनयनः ।
तदेतत्सामर्थ्यं सहजनिजशक्तेस्तव शिवे जगद्रक्षादीक्षावति कनकदुर्गे भगवति ॥ ७४॥

त्रिकोणान्तर्बिन्दूपरिविलसनात्यन्तरसिकां त्रिभिर्वेदैः स्तुत्यां त्रिगुणमयमूर्तित्रययुतां ।
त्रिलोकैराराध्यां त्रिनयनमनःप्रेमजननीं त्रिकालं सेवे त्वां हृदि कनकदुर्गे भगवति ॥ ७५॥

मनो ध्यातुं नालं जननि तव मूर्तिं निरुपमां वचो वक्तुं शक्यं न भवति हि ते चित्रचरितम् ।
तनुस्त्वत्सेवायां भवति विवशा दीनसमये कथं वाहं रक्ष्यस्तव कनकदुर्गे भगवति ॥ ७६॥

वियोगं ते नूनं क्षणमसहमानः पशुपति- र्ददौ ते देहार्धं तरुणसुमबाणायुतसमं ।
अनेन ज्ञातव्यस्तव जननि सौन्दर्यमहिमा त्रिलोकी स्तोतव्यः खलु कनकदुर्गे भगवति ॥ ७७॥

कृता यागा येन श्रुतिषु विदिताः पूर्वजनने धनं दत्तं येन द्विजकुलवरेभ्यो बहुविधम् ।
तपस्तप्तं येनास्खलितमतिना तस्य घटते भवद्भक्तिश्शम्भोस्सति कनकदुर्गे भगवति ॥ ७८॥

भवन्मूर्तिध्यानप्रवणममलञ्चापि हृदयं भवन्नामश्रेणीपठननिपुणां चापि रसनाम् ।
भवत्सेवादार्ढ्यप्रथितमपि कायं वितर मे भवानन्दश्रेयस्करि कनकदुर्गे भगवति ॥ ७९॥

प्रभाषन्ते वेदाश्चकितचकितं तावकगुणान् न पारस्य द्रष्टा तव महिमवार्धेर्विधिरपि ।
भवत्तत्वं ज्ञातुं प्रकृतिचपलानामपि नृणां कथं वा शक्तिस्स्यान्ननु कनकदुर्गे भगवति ॥ ८०॥

नृपा एकच्छत्रं सकलधरणीपालनपरा- स्सुधामाधुर्यश्रीललितकविताकल्पनचणाः ।
निरातङ्कं शास्त्राध्ययनमनसां नित्यकविता त्वदीया ज्ञेया श्रीमति कनकदुर्गे भगवति ॥ ८१॥

कदम्बानां नागाधिकचतुरसञ्चारिभसरी कदम्बानां मध्ये खचरतरुणीकोटिकलिते ।
स्थितां वीणाहस्तां त्रिपुरमथनानन्दजननीं सदाहं सेवे त्वां हृदि कनकदुर्गे भगवति ॥ ८२॥

गिरां देवी भूत्वा विहरसि चतुर्वक्त्रवदने महालक्ष्मीरूपा मधुमथनवक्षस्थलगता ।
शिवाकारेण त्वं शिवतनुनिवासं कृतवती कथं ज्ञेया माया तव कनकदुर्गे भगवति ॥ ८३॥

महाराज्यप्राप्तावतिशयितकौतूहलवतां सुधामाधुर्योद्यत्सरसकविता कौतुकयुजाम् ।
कृताशानां शश्वत्सुखजनकगीर्वाणभजने त्वमेवैका सेव्या ननु कनकदुर्गे भगवति ॥ ८४॥

फणी मुक्ताहारो भवति भसितं चन्दनरजो गिरीन्द्रः प्रासादो गरळममृतं चर्म सुपटः ।
शिवे शम्भोर्यद्यद्विकृतचरितं तत्तदखिलं शुभञ्जातं योगात्तव कनकदुर्गे भगवति ॥ ८५॥

दरिद्रे वा क्षुद्रे गिरिवरसुते यत्र मनुजे सुधापूराधारस्तव शुभकटाक्षो निपतति ।
बहिर्द्वारप्रान्तद्विरदमदगन्धस्स भवति प्रिये कामारातेर्ननु कनकदुर्गे भगवति ॥ ८६॥

प्रभाषन्ते वेदाः प्रकटयति पौराणिकवचः प्रशस्तं कुर्वन्ति प्रथितबहुशास्त्राण्यविरतम् ।
स्तुवन्तः प्रत्यग्रं सुकविनिचयाः काव्यरचनै- रनन्तां ते कीर्तिं ननु कनकदुर्गे भगवति ॥ ८७॥

असूयेर्ष्यादम्भाद्यवगुणपरित्यागचतुरा- स्सदाचारासक्तास्सदयहृदयास्सत्यवचनाः ।
जितस्वान्ताश्शान्ता विमलचरिता दाननिरताः कृपापात्रीभूतास्तव कनकदुर्गे भगवति ॥ ८८॥

यदीयाम्भस्नानाद्दुरितचरितानां समुदया महापुण्यायन्ते महिमवति तस्याश्शुभकरे ।
तटे कृष्णानद्या विहितमहितानन्दवसते कृपा कर्तव्या ते मयि कनकदुर्गे भगवति ॥ ८९॥

यथा पुष्पश्रेणीविलसितकदम्बद्रुमवने तनोर्भागे नागेश्वरवलयिनः श्रीमति यथा ।
तथा भक्तौघानां हृदि कृतविहारे गिरिसुते दया कर्तव्या ते मयि कनकदुर्गे भगवति ॥ ९०॥

समारुह्याभङ्गं मृगपतितुरङ्गं जनयुतं गळाग्रे धूम्राक्षप्रमुखबलबर्हिर्मुखरिपून् ।
निहत्य प्रत्यक्षं जगदवनलीलां कृतवती प्रसन्ना भूयास्त्वं मयि कनकदुर्गे भगवति ॥ ९१॥

पराभूय त्र्यक्षं सवनकरणे यत्रसहितं दुरात्मानं दक्षं पितरमपि सन्त्यज्य तरसा ।
गृहे नीहाराद्रेर्निजजननमङ्गीकृतवती प्रसन्ना भूयास्त्वं मयि कनकदुर्गे भगवति ॥ ९२॥

तपः कृत्वा यस्मिन् सुरपतिसुतोऽनन्यसुलभं भवादस्त्रं लेभे प्रबलरिपुसंहारकरणम् ।
किरातेऽस्मिन् प्रीत्या सहविहरणे कौतुकवती प्रसन्ना भूयास्त्वं मयि कनकदुर्गे भगवति ॥ ९३॥

शरच्चन्द्रालोकप्रतिमरुचिमन्दस्मितयुते सुरश्रीसङ्गीतश्रवणकुतुकालङ्कृतमते ।
कृपापात्रीभूतप्रणमदमराभ्यर्चितपदे प्रसन्ना भूयास्त्वं मयि कनकदुर्गे भगवति ॥ ९४॥

कपालस्रग्धारी कठिनगजचर्माम्बरधरः स्मरद्वेषी शम्भुर्बहुभवनभिक्षाटनपरः ।
अविज्ञातोत्पत्तिर्जननि तव पाणिग्रहणतो जगत्सेव्यो जातः खलु कनकदुर्गे भगवति ॥ ९५॥

पदाभ्यां प्रत्यूषस्फुटविकचशोणाब्जविलसत्- प्रभाभ्यां भक्तानामभयवरदाभ्यां तव शिवे ।
चरद्भ्यां नीहाराचलपदशिलाभङ्गसरणौ नमः कुर्मः कामेश्वरि कनकदुर्गे भगवति ॥ ९६॥

मदीये हृत्पद्मे निवसतु पदाम्भोजयुगळं जगद्वन्द्यं रेखाध्वजकुलिशवज्राङ्कितमिदम् ।
स्फुरत्कान्तिज्योत्स्ना विततमणिमञ्जीरमहितं दयाऽऽधेयाऽमेया मयि कनकदुर्गे भगवति ॥ ९७॥

सदाऽहं सेवे त्वत्पदकमलपीठीपरिसरे स्तुवन् भक्तिश्रद्धापरिचयपवित्रीकृतधिया ।
भवन्तीं कल्याणीं प्रचुरतरकल्याणचरितां दयाऽऽधेयाऽमेया मयि कनकदुर्गे भगवति ॥ ९८॥

हरश्शूली चैकः पितृवननिवासी पशुपति- र्दिशावासो हालाहलकबळनव्यग्रधृतिमान् ।
गिरीशोऽभूदेवंविधगुणचरित्रोऽपि हि भवत् सुसाङ्गत्यात् श्लाघ्यो ननु कनकदुर्गे भगवति ॥ ९९॥

समस्ताशाधीश प्रमुख सुरवर्यैः प्रणमिता- महर्नाथज्वालापतिहरणपाली त्रिनयनाम् ।
सदा ध्यायेऽहं त्वां सकलविबुधाभीष्टकलने रतां तां कल्याणीं हृदि कनकदुर्गे भगवति ॥ १००॥

सुसन्तोषं यो वा जपति नियमादूहितशत- ज्वलद्वृत्तैश्श्राव्यां निशि कनकदुर्गास्तुतिमिमाम् ।
महालक्ष्मीपात्रं भवति सदनं तस्य वदनं गिरां देवीपात्रं कुलमपि विधेः कल्पशतकम् ॥ १०१॥

स्तुतिं दुर्गादेव्यास्सततमघसंहारकरणे सुशक्तां वा लोके पठति सुधिया बुद्धिकुशलः ।
श्रियं मातः तस्मै वितरसि सुतानाञ्च जगतां पतित्वं वाग्मित्वं बहु कनकदुर्गे भगवति ॥ १०२॥

शतश्लोकीबद्धं ननु कनकदुर्गाङ्कितपदं गुरूपन्यस्तं तद्भुवि कनकदुर्गास्तवमिदम् ।
निबद्धं माणिक्यैः कनकशतमानं भवति ते यथा हृद्यं देवि स्फुटपदविभक्तं विजयताम् ॥ १०३॥

इति श्रीमत्परमहंस परिव्राजकाचार्यवर्य श्रीविद्याशङ्करामार्य विरचितं श्रीमत्कनकदुर्गाऽऽनन्दलहरीस्तोत्रं सम्पूर्णम् ।