श्री त्रिपुरसुन्दरी मानसपूजा स्तोत्र !

समस्त दीक्षा/साधना/अनुष्ठान एवं साधनापूर्व प्रशिक्षण की त्वरित जानकारियों हेतु हमारी मोबाईल ऐप इंस्टाल करें ! मोबाईल ऐप इंस्टाल करने हेतु क्लिक करें ! या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता, नमस्तस्यै, नमस्तस्यै, नमस्तस्यै नमो नमः । माँ भगवती आप सब के जीवन को अनन्त खुशियों से परिपूर्ण करें ।

श्रीविद्या में दीक्षित हुए साधक को अपने गुरु से अनुमति व सहमति लेकर ही यह श्री त्रिपुरसुन्दरी मानसपूजा स्तोत्र का प्रयोग करना चाहिए !

श्रीः मम न भजनशक्तिः पादयोस्ते न भक्तिर्न च विषयविरक्तिर्ध्यानयोगे न सक्तिः ।।
इति मनसि सदाहं चिन्तयन्नाद्यशक्ते रुचिरवचनपुष्पैरर्चनं सञ्चिनोमि ॥ १॥

व्याप्तं हाटकविग्रहैर्जलचरैरारूढदेवव्रजैः पोतैराकुलितान्तरं मणिधरैर्भूमीधरैर्भूषितम् ।
आरक्तामृतसिन्धुमुद्धुरचलद्विचीचयव्याकुल-व्योमानं परिचिन्त्य सन्ततमहो चेतः कृतार्थीभव ॥ २॥

तस्मिन्नुज्ज्वलरत्नजालविलसत्कान्तिच्छटाभिः स्फुटं कुर्वाणं वियदिन्द्रचापनिचयैराच्छादितं सर्वतः ।
उच्चैःशृङ्गनिषण्णदिव्यवनिताबृन्दाननप्रोल्लस- द्गीताकर्णननिश्चलाखिलमृगं द्वीपं नमस्कुर्महे ॥ ३॥

जातीचम्पकपाटलादिसुमनःसौरभ्यसम्भावितं ह्रीङ्कारध्वनिकण्ठकोकिलकुहूप्रोल्लासिचूतद्रुमम् ।
आविर्भूतसुगन्धिचन्दनवनं दृष्टिप्रियं नन्दनं चञ्चच्चञ्चलचञ्चरिकचटुलं चेतश्चिरं चिन्तय ॥ ४॥

परिपतितपरागैः पाटलक्षोणिभागो विकसितकुसुमोच्चैः पीतचन्द्रार्करश्मिः ।
अलिशुकपिकराजीकूजितैः श्रोत्रहारी स्फुरतु हृदि मदीये नूनमुद्यानराजः ॥ ५॥

रम्यद्वारपुरप्रचारतमसां संहारकारिप्रभ स्फूर्जत्तोरणभारहारकमहाविस्तारहारद्युते ।
क्षोणीमण्डलहेमहारविलसत्संसारपारप्रद प्रोद्यद्भक्तमनोविहार कनकप्राकार तुभ्यं नमः ॥ ६॥

उद्यत्कान्तिकलापकल्पितनभःस्फूर्जद्वितानप्रभ सत्कृष्णागरुधूपवासितवियत्काष्ठान्तरे विश्रुतः ।।
सेवायातसमस्तदैवतगणैरासेव्यमानोऽनिशं सोऽयं श्रीमणिमण्डपोऽनवरतं मच्चेतसि द्योतताम् ॥ ७॥

क्वापि प्रोद्भटपद्मरागकिरणव्रातेन सन्ध्यायितं कुत्रापि स्फुटविस्फुरन्मरकतद्युत्या तमिस्रायितम् ।।
मध्यालम्बिविशालमौक्तिकरुचा ज्योत्स्नायितं कुत्रचि- न्मातः श्रीमणिमन्दिरं तव सदा वन्दामहे सुन्दरम् ॥ ८॥

उत्तुङ्गालयविस्फुरन्मरकतप्रोद्यत्प्रभामण्डला- न्यालोक्याङ्कुरितोत्सवैर्नवतृणाकीर्णस्थलीशङ्कया ।।
नीतो वाजिभिरुत्पथं बत रथः सूतेन तिग्मद्युते- र्वल्गावल्गिगतहस्तमस्तशिखरं कष्टैरितः प्राप्यते ॥ ९॥

मणिसदनसमुद्यत्कान्तिधारानुरक्ते वियति चरमसन्ध्याशङ्किनो भानुरथ्याः ।।
शिथिलितगतकुप्यत्सूतहुङ्कारनादैः कथमपि मणिगेहादुच्चकैरुच्चलन्ति ॥ १०॥

भक्त्या किं नु समर्पितानि बहुधा रत्नानि पाथोधिना किं वा रोहणपर्वतेन सदनं यैर्विश्वकर्माकरोत् ।।
आ ज्ञातं गिरिजे कटाक्षकलया नूनं त्वया तोषिते शम्भौ नृत्यति नागराजफणिना कीर्णा मणिश्रेणयः ॥ ११॥

विदूरमुक्तवाहनैर्विनम्रमौलिमण्डलै- र्निबद्धहस्तसम्पुटैः प्रयत्नसंयतेन्द्रियैः ।।
विरिञ्चिविष्णुशङ्करादिभिर्मुदा तवाम्बिके प्रतीक्ष्यमाणनिर्गमो विभाति रत्नमण्डपः ॥ १२॥

ध्वनन्मृदङ्गकाहलः प्रगीतकिंनरीगणः प्रनृत्तदिव्यकन्यकः प्रवृत्तमङ्गलक्रमः ।।
प्रकृष्टसेवकव्रजः प्रहृष्टभक्तमण्डलो मुदे ममास्तु सन्ततं त्वदीयरत्नमण्डपः ॥ १३॥

प्रवेशनिर्गमाकुलैः स्वकृत्यरक्तमानसै- र्बहिस्थितामरावलीविधीयमानभक्तिभिः ।।
विचित्रवस्त्रभूषणैरुपेतमङ्गनाजनैः सदा करोतु मङ्गलं ममेह रत्नमण्डपः ॥ १४॥

सुवर्णरत्नभूषितैर्विचित्रवस्त्रधारिभि- र्गृहीतहेमयष्टिभिर्निरुद्धसर्वदैवतैः ।
असङ्ख्यसुन्दरीजनैः पुरस्थितैरधिष्ठितो मदीयमेतु मानसं त्वदीयतुङ्गतोरणः ॥ १५॥

इन्द्रादींश्च दिगीश्वरान्सहपरिवारानथो सायुधा- न्योषिद्रूपधरान्स्वदिक्षु निहितान्सञ्चिन्त्य हृत्पङ्कजे ।।
शङ्खे श्रीवसुधारया वसुमतीयुक्तं च पद्मं स्मरन्कामं नौमि रतिप्रियं सहचरं प्रीत्या वसन्तं भजे ॥ १६॥

गायन्तीः कलवीणयातिमधुरं हुङ्कारमातन्वती- र्द्वाराभ्यासकृतस्थितीरिह सरस्वत्यादिकाः पूजयन् ।।
द्वारे नौमि मदोन्मदं सुरगणाधीशं मदेनोन्मदां मातङ्गीमसिताम्बरां परिलसन्मुक्ताविभूषां भजे ॥ १७॥

कस्तूरिकाश्यामलकोमलाङ्गीं कादम्बरीपानमदालसाङ्गीम् ।
वामस्तनालिङ्गितरत्नवीणां मातङ्गकन्यां मनसा स्मरामि ॥ १८॥

विकीर्णचिकुरोत्करे विगलिताम्बराडम्बरे मदाकुलितलोचने विमलभूषणोद्भासिनि ।।
तिरस्करिणि तावकं चरणपङ्कजं चिन्तय- न्करोमि पशुमण्डलीमलिकमोहदुघ्धाशयाम् ॥ १९॥

प्रमत्तवारुणीरसैर्विघूर्णमानलोचनाः प्रचण्डदैत्यसूदनाः प्रविष्टभक्तमानसाः ।।
उपोढकज्जलच्छविच्छटाविराजिविग्रहः कपालशूलधारिणीः स्तुवे त्वदीयदूतिकाः ॥ २०॥

स्फूर्जन्नव्ययवाङ्कुरोपलसिताभोगैः पुरः स्थापितै- र्दीपोद्भासिशरावशोभितमुखैः कुम्भैर्नवैः शोभिना ।।
स्वर्णाबद्धविचित्ररत्नपटलीचञ्चत्कपाटश्रिया युक्तं द्वारचतुष्टयेन गिरिजे वन्दे मणी मन्दिरम् ॥ २१॥

आस्तीर्णारुणकम्बलासनयुतं पुष्पोपहारान्वितं दीप्तानेकमणिप्रदीपसुभगं राजद्वितानोत्तमम् ।।
धूपोद्गारिसुगन्धिसम्भ्रममिलद्भृङ्गावलीगुञ्जितं कल्याणं वितनोतु मेऽनवरतं श्रीमण्डपाभ्यन्तरम् ॥ २२॥

कनकरचिते पञ्चप्रेतासनेन विराजिते मणिगणचिते रक्तश्वेताम्बरास्तरणोत्तमे ।।
कुसुमसुरभौ तल्पे दिव्योपधानसुखावहे हृदयकमले प्रादुर्भूतां भजे परदेवताम् ॥ २३॥

सर्वाङ्गस्थितिरम्यरूपरुचिरां प्रातः समभ्युत्थितां जृम्भामञ्जुमुखाम्बुजां मधुमदव्याघूर्णदक्षित्रयाम् ।।
सेवायातसमस्तसंनिधिसखीः संमानयन्तीं दृशा सम्पश्यन्परदेवतां परमहो मन्ये कृतार्थं जनुः ॥ २४॥

उच्चैस्तोरणवर्तिवाद्यनिवहध्वाने समुज्जृम्भिते भक्तैर्भूमिविलग्नमौलिभिरलं दण्डप्रणामे कृते ।।
नानारत्नसमूहनद्धकथनस्थालीसमुद्भासितां प्रातस्ते परिकल्पयामि गिरिजे नीराजनामुज्ज्वलाम् ॥ २५॥

पाद्यं ते परिकल्पयामि पदयोरर्घ्यं तथा हस्तयोः सौधीभिर्मधुपर्कमम्ब मधुरं धाराभिरास्वादय ।।
तोयेनाचमनं विधेहि शुचिना गाङ्गेन मत्कल्पितं साष्टाङ्गं प्रणिपातमीशदयिते दृष्ट्या कृतार्थी कुरु ॥ २६॥

मातः पश्य मुखाम्बुजं सुविमले दत्ते मया दर्पणे देवि स्वीकुरु दन्तधावनमिदं गङ्गाजलेनान्वितम् ।
सुप्रक्षालितमाननं विरचयन्स्निग्धाम्बरप्रोञ्छनं द्रागङ्गीकुरु तत्त्वमम्ब मधुरं ताम्बूलमास्वादय ॥ २७॥

निधेहि मणिपादुकोपरि पदाम्बुजं मज्जना- लयं व्रज शनैः सखीकृतकराम्बुजालम्बनम् ।।
महेशि करुणानिधे तव दृगन्तपातोत्सुका- न्विलोकय मनागमूनुभयसंस्थितान्दैवतान् ॥ २८॥

हेमरत्नवरणेन वेष्टितं विस्तृतारुणवितानशोभितम् । सज्जसर्वपरिचारिकाजनं पश्य मज्जनगृहं मनो मम ॥ २९॥

कनककलशजालस्फाटिकस्नानपीठा- द्युपकरणविशालं गन्धमत्तालिमालम् ।।
स्फुरदरुणवितां मञ्जुगन्धर्वगानं परमशिवमहेले मज्जनागारमेहि ॥ ३०॥

पीनोत्तुङ्गपयोधराः परिलसत्सम्पूर्णचन्द्रानना रत्नस्वर्णविनिर्मिताः परिलसत्सूक्ष्माम्बरप्रावृताः ।।
हेमस्नानघटीस्तथा मृदुपटिरुद्वर्तनं कौसुमं तैलं कङ्कतिकं करेषु दधतीर्वन्देऽम्ब ते दासिकाः ॥ ३१॥

तत्र स्फाटिकपीठमेत्य शनकैरुत्तारितालङ्कृति- र्नीचैरुज्झितकञ्चुकोपरिहितारक्तोत्तरीयाम्बरा ।।
वेणीबन्धमपास्य कङ्कतिकया केशप्रसादं मना- क्कुर्वाणा परदेवता भगवती चित्ते मम द्योतताम् ॥ ३२॥

अभ्यङ्गं गिरिजे गृहाण मृदुना तैलेन सम्पादितं काश्मीरैरगरुद्रवैर्मलयजैरुद्वर्तनं कारय ।।
गीते किंनरकामिनीभिरभितो वाद्ये मुदा वादिते नृत्यन्तीमिह पश्य देवि पुरतो दिव्याङ्गनामण्डलीम् ॥ ३३॥

कृतपरिकरबन्धास्तुङ्गपीनस्तनाढ्या मणिनिवहनिबद्धा हेमकुम्भीर्दधानाः ।।
सुरभिसलिलनिर्यद्गन्धलुब्धालिमालाः सविनयमुपतस्थुः सर्वतः स्नानदास्यः ॥ ३४॥

उद्गन्धैरगरुद्रवैः सुरभिणा कस्तूरिकावारिणा स्फूर्जत्सौरभयक्षकर्दमजलैः काश्मीरनीरैरपि ।।
पुष्पाम्भोभिरशेषतीर्थसलिलैः कर्पूरपाथोभरैः स्नानं ते परिकल्पयामि गिरिजे भक्त्या तदङ्गीकुरु ॥ ३५॥

प्रत्यङ्गं परिमार्जयामि शुचिना वस्त्रेण सम्प्रोञ्छनं कुर्वे केशकलापमायततरं धूपोत्तमैर्धूपितम् ।।
आलीबृन्दविनिर्मितां यवनिकामास्थाप्यरत्नप्रभं भक्तत्राणपरे महेशगृहिणि स्नानाम्बरं मुच्यताम् ॥ ३६॥

पीतं ते परिकल्पयामि निबिडं चण्डातकं चण्डिके सूक्ष्मं स्निग्धमुरीकुरुष्व वसनं सिन्दूरपूरप्रभम् ।।
मुक्तारत्नविचित्रहेमरचनाचारुप्रभाभास्वरं नीलं कञ्चुकमर्पयामि गिरिशप्राणप्रिये सुन्दरि ॥ ३७॥

विलुलितचिकुरेण च्छादितांसप्रदेशे मणिनिकरविराजत्पादुकान्यस्तपादे ।
सुललितमवलम्ब्य द्राक्सखीमंसदेशे गिरिशगृहिणि भूषामण्टपाय प्रयाहि ॥ ३८॥

लसत्कनककुट्टिमस्फुरदमन्दमुक्तावली- समुल्लसितकान्तिभिः कलितशक्रचापव्रजे ।।
महाभरणमण्डपे निहितहेमसिंहासनं सखीजनसमावृतं समधितिष्ठ कात्यायनि ॥ ३९॥

स्निग्धं कङ्कतिकामुखेन शनकैः संशोध्य केशोत्करं सीमन्तं विरचय्य चारु विमलं सिन्दूररेखान्वितम् ।।
मुक्ताभिर्ग्रथितालकां मणिचितैः सौवर्णसूत्रैः स्फुटं प्रान्ते मौक्तिकगुच्छकोपलतिकां ग्रथ्नामि वेणीमिमाम् ॥ ४०॥

विलम्बिवेणीभुजगोत्तमाङ्ग- स्फुरन्मणिभ्रान्तिमुपानयन्तम् । स्वरोचिषोल्लासितकेशपाशं महेशि चूडामणिमर्पयामि ॥ ४१॥

त्वामाश्रयद्भिः कबरीतमिस्रैर्बन्दीकृतं द्रागिव भानुबिम्बम् । मृडानि चूडामणिमादधानं वन्दामहे तावतमुत्तमाङ्गम् ॥ ४२॥

स्वमध्यनद्धहाटकस्फुरन्मणिप्रभाकुलं विलम्बिमौक्तिकच्छटाविराजितं समन्ततः ।।
निबद्धलक्षचक्षुषा भवेन भूरि भावितं समर्पयामि भास्वरं भवानि फालभूषणम् ॥ ४३॥

मीनाम्भोरुहखञ्जरीटसुषमाविस्तारविस्मारके कुर्वाणे किल कामवैरिमनसः कन्दर्पबाणप्रभाम् ।।
माध्वीपानमदारुणेऽतिचपले दीर्घे दृगम्भोरुहे देवि स्वर्णशलाकयोर्जितमिदं दिव्याञ्जनं दीयताम् ॥ ४४॥

मध्यस्थारुणरत्नकान्तिरुचिरां मुक्तामुगोद्भासितां दैवाद्भार्गवजीवमध्यगरवेर्लक्ष्मीमधः कुर्वतीम् ।।
उत्सिक्ताधरबिम्बकान्तिविसरैर्भौमीभवन्मौक्तिकां मद्दत्तमुररीकुरुष्व गिरिजे नासाविभूषामिमाम् ॥ ४५॥

उडुकृतपरिवेषस्पर्धया शीतभानो- रिव विरचितदेहद्वन्द्वमादित्यबिम्बम् ।।
अरुणमणिसमुद्यत्प्रान्तविभ्राजिमुक्तं शरवसि परिनिधेहि स्वर्णताटङ्कयुग्मम् ॥ ४६॥

मरकतवरपद्मरागहीरोत्थितगुलिकात्रितयावनद्धमध्यम् । विततविमलमौक्तिकं च कण्ठाभरणमिदं गिरिजे समर्पयामि ॥ ४७॥

नानादेशसमुत्त्थितैर्मणिगणप्रोद्यत्प्रभामण्डल- व्याप्तैराभरणैर्विराजितगलां मुक्ताच्छटालङ्कृताम् ।।
मध्यस्थारुणरत्नकान्तिरुचिरां प्रान्तस्थमुक्ताफल- व्रातामम्ब चतुष्किकां परशिवे वक्षःस्थले स्थापय ॥ ४८॥

अन्योन्यं प्लावयन्ती सततपरिचलत्कान्तिकल्लोलजालैः कुर्वाणा मज्जदन्तःकरणविमलतां शोभितेव त्रिवेणी ।।
मुक्ताभिः पद्मरागैर्मरकतमणिभिर्निर्मिता दीप्यमानै- र्नित्यं हारत्रयी ते परशिवरसिके चेतसि द्योततां नः ॥ ४९॥

करसरसिजनाले विस्फुरत्कान्तिजाले विलसदमलशोभे चञ्चदीशाक्षिलोभे ।
विविधमणिमयूखोद्भासितं देवि दुर्गे कनककटकयुग्मं बाहुयुग्मे निधेहि ॥ ५०॥

व्यालम्बमानसितपट्टकगुच्छशोभि स्फूर्जन्मणीघटितहारविरोचमानम् ।
मातर्महेशमहिले तव बाहुमूले केयूरकद्वयमिदं विनिवेशयामि ॥ ५१॥

विततनिजमयूखैर्निर्मितामिन्द्रनीलै- र्विजितकमलनालालीनमत्तालिमालाम् ।।
मणिगणखचिताभ्यां कङ्कणाभ्यामुपेतां कलय वलयराजीं हस्तमूले महेशि ॥ ५२॥

नीलपट्टमृदुगुच्छशोभिता बद्धनैकमणिजालमञ्जुलाम् । अर्पयामि वलयात्पुरःसरे विस्फुरत्कनकतैतृपालिकाम् ॥ ५३॥

आलवालमिव पुष्पधन्वना बालविद्रुमलतासु निर्मितम् । अङ्गुलीशु विनिधीयतां शनैरङ्गुलीयकमिदं मदर्पितम् ॥ ५४॥

विजितहरमनोभूमत्तमातङ्गकुम्भ- स्थलविलुलितकूजत्किङ्किणीजालतुल्याम् ।।
अविरतकलनदैरीशचेतो हरन्तीं विविधमणिनिबद्धां मेखलामर्पयामि ॥ ५५॥

व्यालम्बमानवरमौक्तिकगुच्छशोभि विभ्राजिहाटकपुटद्वयरोचमानम् ।
हेम्ना विनिर्मितमनेकमणिप्रबन्धं नीवीनिबन्धनगुणं विनिवेदयामि ॥ ५६॥

विनिहतनवलाक्षापङ्कबालातपौघे मरकतमणिराजीमञ्जुमञ्जीरघोषे ।
अरुणमणिसमुद्यत्कान्तिधाराविचित्र- स्तव चरणसरोजे हंसकः प्रीतिमेतु ॥ ५७॥

निबद्धशितिपट्टकप्रवरगुच्छसंशोभितां कलक्वणितमञ्जुलां गिरिशचित्तसंमोहनीम् ।।
अमन्दमणिमण्डलीविमलकान्तिकिम्मीरितां निधेहि पदपङ्कजे कनकघुङ्घुरूमम्बिके ॥ ५८॥

विस्फुरत्सहजरागरञ्जिते शिञ्जितेन कलितां सखीजनैः । पद्मरागमणिनूपुरद्वयीमर्पयामि तव पादपङ्कजे ॥ ५९॥

पदाम्बुजमुपासितुं परिगतेन शीतांशुना कृतां तनुपरम्परामिव दिनान्तरागारुणाम् ।।
महेशि नवयावकद्रवभरेण शोणीकृतां नमामि नखमण्डलीं चरणपङ्कजस्थां तव ॥ ६०॥

आरक्तश्वेतपीतस्फुरदुरुकसुमैश्चित्रितां पट्टसूत्रै- र्देवस्त्रीभिः प्रयत्नादगरुसमुदितैर्धूपितां दिव्यधूपैः ।।
उद्यद्गन्धान्धपुष्पन्धयनिवहसमारब्धझाङ्कारगीतां चञ्चत्कह्लारमालां परशिवरसिके कण्ठपीठेऽर्पयामि ॥ ६१॥

गृहाण परमामृतं कनकपात्रसंस्थापितं समर्पय मुखाम्बुजे विमलवीटिकामम्बिके ।।
विलोकय मुखाम्बुजं मुकुरमण्डले निर्मले निधेहि मणिपादुकोपरि पदाम्बुजं सुन्दरि ॥ ६२॥

आलम्ब्य स्वसखीं करेण शनकैः सिंहासनादुत्थिता कूजन्मन्दमरालमञ्जुलगतिप्रोल्लासिभूषाम्बर ।।
आनन्दप्रतिपादकैरुपनिषद्वाक्यैः स्तुता वेधसा मच्चित्ते स्थिरतामुपैतु गिरिजा यान्ती सभामण्डपम् ॥ ६३॥

चलन्त्यामम्बायां प्रचलति समस्ते परिजने सवेगं संयाते कनकलतिकालङ्कृतिभरे ।।
समतादुत्तालस्फुरितपदसम्पातजनितै- र्झणत्कारैस्तारैर्झणझणितमासीन्मणिगृहम् ॥ ६४॥

चञ्चद्वेत्रकराभिरङ्गविलसद्भूषाम्बराभिः पुरो- यन्तीभिः परिचारिकाभिरमरव्राते समुत्सारिते ।।
रुद्धे निर्जरसुन्दरीभिरभितः कक्षान्तरे निर्गतं वन्दे नन्दितशम्भु निर्मलचिदानन्दैकरूपं महः ॥ ६५॥

वेधाः पादतले पतत्ययमसौ विष्णुर्नमत्यग्रतः शम्भुर्देहि दृगञ्चलं सुरपतिं दूरस्थमालोकय ।।
इत्येवं परिचारिकाभिरुदिते संमाननां कुर्वती दृग्द्वन्द्वेन यथोचितं भगवती भूयाद्विभूत्यै मम ॥ ६६॥

मन्दं चारणसुन्दरीभिरभितो यान्तीभिरुत्कण्ठया नामोच्चारणपूर्वकं प्रतिदिशं प्रत्येकमावेदितात् ।।
वेगादक्षिपथं गतान्सुरगणानालोकयन्ती शनै- र्दित्सन्ती चरणाम्बुजं पथि जगत्पायान्महेशप्रिया ॥ ६७॥

अग्रे केचन पार्श्वयोः कतिपये पृष्ठे परे प्रस्थिता आकाशे समवस्थिताः कतिपये दिक्षु स्थिताश्चापरे ।।
संमर्दं शनकैरपास्य पुरतो दण्डप्रणामान्मुहुः कुर्वाणाः कतिचित्सुरा गिरिसुते दृक्पातमिच्छन्ति ते ॥ ६८॥

अग्रे गायति किंनरी कलपदं गन्धर्वकान्ताः शनै- रातोद्यानि च वादयन्ति मधुरं सव्यापसव्यस्थिताः ।।
कूजन्नूपुरनाद मञ्जु पुरतो नृत्यन्ति दिव्याङ्गना गच्छन्तः परितः स्तुवन्ति निगमस्तुत्या विरिञ्च्यादयः ॥ ६९॥

कस्मैचित्सुचिरादुपासितमहामन्त्रौघसिद्धिं क्रमा- देकस्मै भवनिःस्पृहाय परमानन्दस्वरूपां गतिम् ।।
अन्यस्मै विषयानुरक्तमनसे दीनाय दुःखापहं द्रव्यं द्वारसमाश्रिताय ददतीं वन्दामहे सुन्दरीम् ॥ ७०॥

नम्रीभूय कृताञ्जलिप्रकटितप्रेमप्रसन्नानने मन्दं गच्छति संनिधौ सविनयात्सोत्कण्ठमोघत्रये ।।
नानामन्त्रगणं तदर्थमखिलं तत्साधनं तत्फलं व्याचक्षाणमुदग्रकान्ति कलये यत्किञ्चिदाद्यं महः ॥ ७१॥

तव दहनसदृक्षैरीक्षणैरेव चक्षु- र्निखिलपशुजनानां भीषयद्भीषणास्यम् ।
कृतवसति परेशप्रेयसि द्वारि नित्यं शरभमिथुनमुच्चैर्भक्तियुक्तो नतोऽस्मि ॥ ७२॥

कल्पान्ते सरसैकदासमुदितानेकार्कतुल्यप्रभां रत्नस्तम्भनिबद्धकाञ्चनगुणस्फूर्जद्वितानोत्तमाम् ।।
कर्पूरागरुगर्भवर्तिकलिकाप्राप्तप्रदीपावलीं श्रीचक्राकृतिमुल्लसन्मणिगणां वन्दामहे वेदिकाम् ॥ ७३॥

स्वस्थानस्थितदेवतागणवृते बिन्दौ मुदा स्थापितं नानारत्नविराजिहेमविलसत्कान्तिच्छटादुर्दिनम् ।।
चञ्चत्कौसुमतूलिकासनयुतं कामेश्वराधिष्ठितं नित्यानन्दनिदानमम्ब सततं वन्दे च सिंहासनम् ॥ ७४॥

वदद्भिरभितो मुदा जय जयेति बृन्दारकैः कृताञ्जलिपरम्परा विदधति कृतार्था दृशा ।।
अमन्दमणिमण्डलीखचितहेमसिंहासनं सखीजनसमावृतं समधितिष्ठ दाक्षायणि ॥ ७५॥

कर्पूरादिकवस्तुजातमखिलं सौवर्णभृङ्गारकं ताम्बूलस्य करण्डकं मणिमयं चैलाञ्चलं दर्पणम् ।।
विस्फूर्जन्मणिपादुके च दधतीः सिंहासनस्याभित- स्तिष्ठन्तीः परिचारिकास्तव सदा वन्दामहे सुन्दरि ॥ ७६॥

त्वदमलवपुरुद्यत्कान्तिकल्लोलजालैः स्फुटमिव दधतीभिर्बाहुविक्षेपलीलाम् ।
मुहुरपि च विधूते चामरग्राहिणीभिः सितकरकरशुभ्रे चामरे चालयामि ॥ ७७॥

प्रान्तस्फुरद्विमलमौक्तिकगुच्छजालं चञ्चन्महामणिविचित्रितहेमदण्डम् ।
उद्यत्सहस्रकरमण्डलचारु हेमच्छत्रं महेशमहिले विनिवेशयामि ॥ ७८॥

उद्यत्तावकदेहकान्तिपटलीसिन्दूरपूरप्रभा- शोणीभूतमुदग्रलोहितमणिच्छेदानुकारिच्छवि ।।
दूरादादरनिर्मिताञ्जलिपुटैरालोकमानं सुर- व्यूहैः काञ्चनमातपत्रमतुलं वन्दामहे सुन्दरम् ॥ ७९॥

सन्तुष्टां परमामृतेन विलसत्कामेश्वराङ्कस्थितां पुष्पौघैरभिपूजितां भगवतीं त्वां वन्दमाना मुदा ।।
स्फूर्जत्तावकदेहरश्मिकलनाप्राप्तस्वरूपाभिदाः श्रीचक्रावरणस्थिताः सविनयं वन्दामहे देवताः ॥ ८०॥

आधारशक्त्यादिकमाकलय्य मध्ये समस्ताधिकयोगिनीं च । मित्रेशनाथादिकमत्र नाथचतुष्टयं शैलसुते नतोऽस्मि ॥ ८१॥

त्रिपुरासुधार्णवासनमारभ्य त्रिपुरमालिनी यावत् । आवरणाष्टकसंस्थित मासनषट्कं नमामि परमेशि ॥ ८२॥

ईशाने गणपं स्मरामि विचरद्विघ्नान्धकारच्छिदं वायव्ये वटुकं च कज्जलरुचिं व्यालोपवीतान्वितम् ।।
नैरृत्ये महिषासुरप्रमथिनीं दुर्गां च सम्पूजय- न्नाग्नेयेऽखिलभक्तरक्षणपरं क्षेत्राधि नाथं भजे ॥ ८३॥

उड्यानजालन्धरकामरूप पीठानिमान्पूर्णगिरिप्रसक्तान् । त्रिकोणदक्षाग्रिमसव्यभाग मध्यस्थितान्सिद्धिकरान्नमामि ॥ ८४॥

लोकेशः पृथिवीपतिर्निगदितो विष्णुर्जलानां प्रभु- स्तेजोनाथ उमापतिश्च मरुतामीशस्तथा चेश्वरः ।।
आकाशाधिपतिः सदाशिव इति प्रेताभिधामागता- नेतांश्चक्रबहिःस्थितान्सुरगणान्वन्दामहे सादरम् ॥ ८५॥

तारानाथकलाप्रवेशनिगमव्याजाद्गतासुप्रथं त्रैलोक्ये तिथिषु प्रवर्तितकलाकाष्ठादिकालक्रमम् ।।
रत्नालङ्कृतिचित्रवस्त्रललितं कामेश्वरीपूर्वकं नित्याषोडशकं नमामि लसितं चक्रात्मनोरन्तरे ॥ ८६॥

हृदि भावितदैवतं प्रयत्नाभ्युपदेशानुगृहीत भक्तसङ्घम् । स्वगुरुक्रमसञ्ज्ञचक्रराज स्थितमोघत्रयमानतोऽस्मि मूर्ध्ना ॥ ८७॥

हृदयमथ शिरः शिखाखिलाद्ये कवचमथो नयनत्रयं च देवि । मुनिजनपरिचिन्तित तथास्त्रं स्फुरतु सदा हृदये षडङ्गमेतत् ॥ ८८॥

त्रैलोक्यमोहनमिति प्रथिते तु चक्रे चञ्चद्विभूषणगणत्रिपुराधिवासे ।
रेखात्रये स्थितवतीरणिमादिसिद्धी- र्मुद्रा नमामि सततं प्रकटाभिधास्ताः ॥ ८९॥

सर्वाशापरिपूरके वसुदलद्वन्द्वेन विभ्राजिते विस्फूर्जन्त्रिपुरेश्वरीनिवसतौ चक्रे स्थिता नित्यशः ।।
कामाकर्षणिकादयो मणिगणभ्राजिष्णुदिव्याम्बरा योगिन्यः प्रदिशन्तु काङ्क्षितफलं विख्यातगुप्ताभिधाः ॥ ९०॥

महेशि वसुभिर्दलैर्लसति सर्वसङ्क्षोभणे विभूषणगणस्फुरन्त्रिपुरसुन्दरीसद्मनि ।।
अनङ्गकुसुमादयो विविधभूषणोद्भासिता दिशन्तु मम काङ्क्षितं तनुतराश्च गुप्ताभिधाः ॥ ९१॥

लसद्युगदृशारके स्फुरति सर्वसौभाग्यदे शुभाभरणभूषितत्रिपुरवासिनीमन्दिरे ।।
स्थिता दधतु मङ्गलं सुभगसर्वसङ्क्षोभिणी- मुखाः सकलसिद्धयो विदितसम्प्रदायाभिधाः ॥ ९२॥

बहिर्दशारे सर्वार्थसाधके त्रिपुराश्रयाः । कुलकौलाभिधाः पान्तु सर्वसिद्धिप्रदायिकाः ॥ ९३॥

अन्तःशोभिदशारकेऽतिललिते सर्वादिरक्षाकरे मालिन्या त्रिपुराद्यया विरचितावासे स्थितं नित्यशः ।।
नानारत्नविभूषणं मणिगणभ्राजिष्णु दिव्याम्बरं सर्वज्ञादिकशक्तिबृन्दमनिशं वन्दे निगर्भाभिधम् ॥ ९४॥

सर्वरोगहरेऽष्टारे त्रिपुरासिद्धयान्विते । रहस्ययोगिनीर्नित्यं वशिन्याद्या नमाम्यहम् ॥ ९५॥

चूताशोकविकासिकेतकरजःप्रोद्भासिनीलाम्बुज- प्रस्फूर्जन्नवमल्लिकासमुदितैः पुष्पैः शरान्निर्मितान् ।।
रम्यं पुष्पशरासनं सुललितं पाशं तथा चाङ्कुशं वन्दे तावकमायुधं परशिवे चक्रान्तरालेस्थितम् ॥ ९६॥

त्रिकोण उदितप्रभे जगति सर्वसिद्धिप्रदे युते त्रिपुरयाम्बया स्थितवती च कामेश्वरी ।।
तनोतु मम मङ्गलं सकलशर्म वज्रेश्वरी करोतु भगमालिनी स्फुरतु मामके चेतसि ॥ ९७॥

सर्वानन्दमये समस्तजगतामाकाङ्क्षिते बैन्दवे भैरव्या त्रिपुराद्यया विरचितावासे स्थिता सुन्दरी ।।
आनन्दोल्लसितेक्षणा मणिगणभ्राजिष्णुभूषाम्बरा विस्फूर्जद्वदना परापररहः स मां पातु योगिनी ॥ ९८॥

उल्लसत्कनककान्तिभासुरं सौरभस्फुरणवासिताम्बरम् । दूरतः परिहृतं मधुव्रतैरर्पयामि तव देवि चम्पकम् ॥ ९९॥

वैरमुद्धतमपास्य शम्भुना मस्तके विनिहितं कलाच्छलात् । गन्धलुब्धमधुपाश्रितं सदा केतकीकुसुममर्पयामि ते ॥ १००॥

चूर्णीकृतं द्रागिव पद्मजेन त्वदाननस्पर्धिसुधांशुबिम्बम् । समर्पयामि स्फुटमञ्जलिस्थं विकासिजातीकुसुमोत्करं ते ॥ १०१॥

अगरुबहलधूपाजस्रसौरभ्यरम्यां मरकतमणिराजीराजिहारिस्रगाभाम् ।
दिशि विदिशि विसरद्गन्धलुब्धालिमालां वकुलकुसुममालां कण्ठपीठेऽर्पयामि ॥ १०२॥

ईङ्कारोर्ध्वगबिन्दुराननमधोबिन्दुद्वयं च स्तनौ त्रैलोक्ये गुरुगम्यमेतदखिलं हार्दं च रेखात्मकम् ।।
इत्थं कामकलात्मिकां भगवतीमन्तः समाराधय- न्नानन्दाम्बुधिमज्जने प्रलभतामानन्दथुं सज्जनः ॥ १०३॥

धूपं तेऽगरुसम्भवं भगवति प्रोल्लासिगन्धोद्धुरं दीपं चैव निवेदयामि महसा हार्दान्धकारच्छिदम् ।।
रजस्वर्णविनिर्मितेषु परितः पात्रेषु संस्थापितं नैवेद्यं विनिवेदयामि परमानन्दात्मिके सुन्दरि ॥ १०४॥

जातीकोरकतुल्यमोदनमिदं सौवर्णपात्रे स्थितं शुद्धान्नं शुचि मुद्गमाषचणकोद्भूतातथा सूपकाः ।।
प्राज्यं माहिषमाज्यमुत्तममिदं हैवङ्गवीनं पृथ- क्पात्रेषु प्रतिपादितं परशिवे तत्सर्वमङ्गीकुरु ॥ १०५॥

शिम्बीसूरणशाकबिम्बबृहतीकूश्माण्डकोशातकी- वृन्ताकानि पटोलकानि मृदुना संसाधितान्यग्निना ।।
सम्पन्नानि च वेसवारविसरैर्दिव्यानि भक्त्या कृता- न्यग्रे ते विनिवेदयामि गिरिजे सौवर्णपात्रव्रजे ॥ १०६॥

निम्बूकार्द्रकचूतकन्दकदलीकौशातकीकर्कटी- धात्रीबिल्वकरीरकैर्विरचितान्यानन्दचिद्विग्रहे ।।
राजीभिः कटुतैलसैन्धवहरिद्राभिः स्थितान्पातये सन्धानानि निवेदयामि गिरिजे भूरिप्रकाराणि ते ॥ १०७॥

सितयाञ्चितलड्डुकव्रजान्मृदुपूपान्मृदुलाश्च पूरिकाः । परमान्नमिदं च पार्वति प्रणयेन प्रतिपादयामि ते ॥ १०८॥

दिग्धमेतदनले सुसाधितं चन्द्रमण्डलनिभं तथा दधि । फाणितं शिखरिणीं सितासितां सर्वमम्ब विनिवेदयामि ते ॥ १०९॥

अग्रे ते विनिवेद्य सर्वममितं नैवेद्यमङ्गीकृतं ज्ञात्वा तत्त्वचतुष्टयं प्रथमतो मन्ये सुतृप्तां ततः ।।
देवीं त्वां परिशिष्टमम्ब कनकामत्रेषु संस्थापितं शक्तिभ्यः समुपाहारामि सकलं देवेशि शम्भुप्रिये ॥ ११०॥

वामेन स्वर्णपात्रीमनुपमपरमान्नेन पूर्णां दधाना- मन्येन स्वर्णदर्वीं निजजनहृदयाभीष्टदां धारयन्तीम् ।।
सिन्दूरारक्तवस्त्रां विविधमणिलसद्भूषणां मेचकाङ्गीं तिष्ठन्तीमग्रतस्ते मधुमदमुदितामन्नपूर्णां नमामि ॥ १११॥

पङ्क्त्योपविष्टान्परितस्तु चक्रं शक्त्या स्वयालिङ्गितवामभागान् ।
सर्वोपचारैः परिपूज्य भक्त्या तवाम्बिके पारिषदान्नमामि ॥ ११२॥

परमामृतमत्तसुन्दरी गणमध्यस्थितमर्कभासुरम् । परमामृतघूर्णितेक्षणं किमपि ज्योतिरुपास्महे परम् ॥ ११३॥

दृश्यते तव मुखाम्बुजं शिवे श्रूयते स्फुटमनाहतध्वनिः । अर्चने तव गिरामगोचरे न प्रयाति विषयान्तरं मनः ॥ ११४॥

त्वन्मुखाम्बुजविलोकनोल्लसत्प्रेमनिश्चलविलोचनद्वयीम् । उन्मनीमुपगतां सभामिमां भावयामि परमेशि तावकीम् ॥ ११५॥

चक्षुः पश्यतु नेह किञ्चन परं घ्राणं न वा जिघ्रतु श्रोत्रं हन्त श्रुणोतु न त्वगपि न स्पर्शं समालम्बताम् ।।
जिह्वा वेत्तु न वा रसं मम परं युष्मत्स्वरूपामृते नित्यानन्दविघूर्णमाननयने नित्यं मनो मज्जतु ॥ ११६॥

यस्त्वां पश्यति पार्वति प्रतिदिनं ध्यानेन तेजोमयीं मन्ये सुन्दरि तत्त्वमेतदखिलं वेदेषु निष्ठां गतम् ।।
यस्तस्मिन्समये तवार्चनविधावानन्दसान्द्राशयो यातोऽहं तदभिन्नतां परशिवे सोऽयं प्रसादस्तव ॥ ११७॥

गणाधिनाथं वटुकं च योगिनीः क्षेत्राधिनाथं च विदिक्चतुष्टये । सर्वोपचारैः परिपूज्य भक्तितो निवेदयामो बलिमुक्तयुक्तिभिः ॥ ११८॥

वीणामुपान्ते खलु वादयन्त्यै निवेद्य शेषं खलु शेषिकायै । सौवर्णभृङ्गारविनिर्गतेन जलेन शुद्धाचमनं विधेहि ॥ ११९॥

ताम्बूलं विनिवेदयामि विलसत्कर्पूरकस्तूरिका- जातीपूगलवङ्गचूर्णखदिरैर्भक्त्या समुल्लासितम् ।।
स्फूर्जद्रत्नसमुद्गकप्रणिहितं सौवर्णपात्रे स्थितै- र्दीपैरुज्ज्वलमान्नचूर्णरचितैरारार्तिकं गृह्यताम् ॥ १२०॥

काचिद्गायति किंनरी कलपदं वाद्यं दधानोर्वशी रम्भा नृत्यति केलिमञ्जुलपदं मातः पुरस्तात्तव ।।
कृत्यं प्रोज्झ्य सुरस्त्रियो मधुमदव्याघूर्णमानेक्षणं नित्यानन्दसुधाम्बुधिं तव मुखं पश्यन्ति दृश्यन्ति च ॥ १२१॥

ताम्बूलोद्भासिवक्त्रैस्त्वदमलवदनालोकनोल्लासिनेत्रै- श्चक्रस्थैः शक्तिसङ्घैः परिहृतविषयासङ्गमाकर्ण्यमानम् ॥ १२२॥

अर्चाविधौ ज्ञानलवोऽपि दूरे दूरे तदापादकवस्तुजातम् । प्रदक्षिणीकृत्य ततोऽर्चनं ते पञ्चोपचारात्मकमर्पयामि ॥ १२३॥

यथेप्सितमनोगतप्रकटितोपचारार्चितं निजावरणदेवतागणवृतां सुरेशस्थिताम् ।।
कृताञ्जलिपुटो मुहुः कलितभूमिरष्टाङ्गकै- र्नमामि भगवत्यहं त्रिपुरसुन्दरि त्राहि माम् ॥ १२४॥

विज्ञप्तीरवधेहि मे सुमहता यत्नेन ते संनिधिं प्राप्तं मामिह कान्दिशीकमधुना मातर्न दूरीकुरु ।।
चित्तं त्वत्पदभावने व्यभिचरेद्दृग्वाक्च मे जातु चे- त्तत्सौम्ये स्वगुणैर्बधान न यथा भूयो विनिर्गच्छति ॥ १२५॥

क्वाहं मन्दमतिः क्व चेदमखिलैरेकान्तभक्तैः स्तुतं ध्यातं देवि तथापि ते स्वमनसा श्रीपादुकापूजनम् ।।
कादाचित्कमदीयचिन्तनविधौ सन्तुष्टया शर्मदं स्तोत्रं देवतया तया प्रकटितं मन्ये मदीयानने ॥ १२६॥

नित्यार्चमिदं चित्ते भाव्यमानं सदा मया । निबद्धं विविधैः पद्यैरनुगृह्णातु सुन्दरी ॥ १२७॥

श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ त्रिपुरसुन्दरीमानसपूजास्तोत्रं सम्पूर्णम् ॥