श्री महाषोडशी वर्णरत्नावली स्तोत्र !

समस्त साधनाओं के लिए पंजिकरण खोल दिए गए हैं, अब आप वेबसाईट पर अपना खाता बनाकर साधनाओं हेतु पंजिकरण कर सकते हैं ! समस्त दीक्षा/साधना/अनुष्ठान एवं साधनापूर्व प्रशिक्षण की त्वरित जानकारियों हेतु हमारी मोबाईल ऐप इंस्टाल करें ! मोबाईल ऐप इंस्टाल करने हेतु क्लिक करें ! या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता, नमस्तस्यै, नमस्तस्यै, नमस्तस्यै नमो नमः । माँ भगवती आप सब के जीवन को अनन्त खुशियों से परिपूर्ण करें ।

ह्रीङ्काराङ्कणदीपिकां श्रितजनानन्दप्रदां श्रीमतीं श्रीनाथाद्यमरार्चितङ्घ्रिकमलां श्रीसुन्दरीं भावये ।
श्रीमन्मञ्जुलरत्नसानुविलसन्मध्यस्थकूटाग्रग- श्रीमन्नागरमध्यलासिसुमहच्छ्रीचक्रबिन्दौ स्थिताम् ॥ १॥

ह्रीङ्कारामृतसिन्धुकौस्तुभमणिं ह्रीङ्कारमध्यस्थितां ह्रीङ्कारोन्नतरत्नसौधवलभीसंलासिपारावतीम् ।
ह्ऱीङ्कारमरपादपाग्रविहरत्संहृष्टकेकीं भजे ह्रीङ्काराम्बुदचञ्चलां हृदि गतां ह्रीङ्कारवर्णात्मिकाम् ॥ २॥

क्लीङ्काराम्बुजपत्रभास्करनिभां क्लीङ्कारचन्द्रप्रभां क्लीङ्काराग्निशिखां भजामि सततं क्लीङ्कारपेटीमणिम् ।
क्लीङ्कारोपवनान्यपुष्टगृहिणीं क्लीङ्कारवेद्यात्मिकां क्लीङ्काराब्जहरप्रियां परतरां क्लीङ्कारवर्णात्मिकाम् ॥ ३॥

ऐं ऐमित्यनुचिन्तकाच्छहृदयाम्भोजाटवीहंसिकां ईशित्वादिविभूतिसंवृतमहारत्नासने संस्थिता ।
ऐश्वर्याय भवत्वखण्डविभवा याम्बा सदा मे गृहे चेशाद्यर्चितपादपङ्कजयुगा चैशाङ्कमञ्चस्थिता ॥ ४॥

सौन्दर्यद्रुममञ्जरी भगवती सौवर्णवर्णावता- न्मां संसारमहाभयाद् द्रुततरं सौवर्नकुम्भस्तनी ।
सूर्याब्जारिकृशानुदृक् शशिकलोत्तंसा सदानन्ददा सौभाग्यं दिशतादथ प्रथितमप्यव्याहतं भूरि मे ॥ ५॥

ओङ्कारार्थनिरूपणैकमनसा चोङ्कारनादात्मना श्रीदेव्या मम चित्तभित्तिरधुना चित्रायते चोज्ज्वला ।
ओजोभिर्जगदेतदद्य विपुलं यस्यास्तयाब्जप्रभै- रोतप्रोतमभूत् कुसुम्भकुरुविन्दाब्जप्रभायाः सदा ॥ ६॥

ह्रीङ्कारागममस्तकं हृदि कदा भायाद् वपुस्ते परं ह्रीङ्काराब्धिसुधामयं हृतजपाशोणं हितप्रापकम् ।
ह्रीङ्काराद्रिगुहाहरीन्द्रशिशुकं ह्रीङ्कारकन्दाङ्कुरं ह्रीङ्काराम्बुजसौरभं हृतजगज्जालं जगन्नायिके ॥ ७॥

ह्रीङ्काराध्वरदक्षिणे जननि ते पादाब्जयुग्मे सदा भक्तिं मे जनयाशु देवि कृपया श्रीदेवि तारायिते ।
श्रीमन्मञ्जुलरत्ननिर्मितमहामञ्जीरभूषोज्ज्वले श्रीशृङ्गाररसालये श्रितजगत्स्वान्ताब्जिनीहंसिके ॥ ८॥

कल्याण वितनोतु काममनिशं कामारिवामाङ्कगा कस्तूरीघनसाररूषितकुचाग्रालम्बिमुक्तालता ।
कामाकर्षणदिव्यपाशसुभगा कान्त्यार्ककोटिप्रभा कल्याणी कमलेक्षणा कलिमलप्रध्वंसिनी कामदा ॥ ९॥

एतावन्मम देवि ते पदयुगे भक्तिर्दृढा भूयसी स्यान्नेत्रे च जपाप्रसूनरुचिरायास्त्वत्तनोर्वीक्षणे ।
आनन्दाश्रुपरिप्लुते वचनमप्यम्ब स्तवे गद्गदं चेतस्त्वन्मयमम्ब पश्यतु जगत् त्वन्मूर्तिभासारुणम् ॥ १०॥

ईशानादिपदाञ्चिते शिवमये मञ्चे परेशाङ्कगा- मीशित्वाद्यखिलाष्टभूतिमनिशं दात्रीं स्वभक्ताय मे ।
चापं चैक्षवमाशुगं सुममयं क्रोधात्मकं चाङ्कुशं पाशं रागतनुं प्रणौमि दधतीं श्रीमन्महासुन्दरीम् ॥ ११॥

लक्ष्मीं चक्रनिवासिनीं ललितसङ्गीतप्रियां लाकिनीं लब्धैश्चर्यसमुन्नतिं लयकरीं लास्यप्रियामाश्रये ।
लङ्कानायकवैरिपूजितपदां लावण्यवारांनिधिं लक्ष्मीपूजितपादपद्मयुगलां मोक्षाख्यलक्ष्म्यै सदा ॥ १२॥

ह्रीङ्कारार्णसुधां च हृद्यममरैरीड्यं महत् ते वपुः प्रालेयांशुकलाविलासिमकुटं ह्रीङ्कारनादात्मकम् ।
ये ध्यायन्ति हृदम्बुजे प्रतिदिनं तेषामनङ्गज्वर- क्लान्ताः स्युर्वशमागतास्त्वनुकलं वध्वः सुराणां प्रियाः ॥ १३॥

हन्तास्थां मितवैभवेषु हरिमुख्येष्वेव मूढा जना भक्तिं पामरदैवतेषु विवशाः कुर्वन्ति मोहादिह ।
त्यक्त्वा त्वां परदेवतां हरिहरब्रह्मादिभिः सेवितां सर्वैश्वर्यमहोदयां खरमिमे सन्त्यज्य धेनुं श्रिताः ॥ १४॥

सर्वज्ञत्वमवाप्य संसदि सतां शास्त्रेषु पाण्डित्यम- प्यम्बायाः पदपद्मसंस्मृतिवशान्मूकोऽपि वाग्मी भवेत् ।
यस्यास्तच्चरणाम्बुजं हरिहरब्रह्मादिभिर्वन्दितं मूढाश्चिन्तयताशु वोऽपि तरसा दद्यात् कवित्वं श्रियः ॥ १५॥

कल्याण्यम्ब कदम्बकाननगृहे कल्पद्रुमैः काङ्क्षिता- दर्थादर्थसमर्पणेऽधिकतरे कारुण्यकल्लोलिभिः ।
कर्णान्तायतलोचनाञ्चलगतैर्वीक्ष्याद्य मामातुरं रक्षासु त्रिपुरे परात्परतरे श्रीकामसञ्जीविनि ॥ १६॥

हस्त्युत्तुङ्गपृथूरुकुम्भकुचयोर्विन्यस्तहारेण ता- मारक्तांशुकमाल्यभूषणवरैरुद्दीप्यमानामुमाम् ।
हाहाहूहुमुखस्तुतामनुदिनं हैयगवीनान्तरा- मम्बामादिमवाक्स्तुतामहमलं ध्यायाम्यभीष्टाप्तये ॥ १७॥

लब्धज्ञानसुधाकरेण मनसा लक्ष्यीकृतं ते वपुः सद्भिः सन्ततमम्बुजाक्षि ललिते लग्नं भवत्वान्तरे ।
लावण्योज्ज्वलदिव्यगात्रि विमले लाक्षारसालङ्कृतं श्रीमत्पादपयोजयुग्ममधुना मन्मूर्ध्नि निक्षिप्यताम् ॥ १८॥

ह्रीङ्काराब्धिसुधे ह्रिया विरहिते ह्रीङ्कारमन्त्रार्थदे ह्रीङ्कारप्रियशारिके मयि कृपां ह्रीङ्कारनादोदये ।
ह्रीङ्कारमलदर्पणप्रतिकृते ह्रीङ्कारवेद्ये शिवे दीने मय्यधुना कुरुष्व दयया ह्रीङ्कारदीपप्रभे ॥ १९॥

सम्पत्कर्मणि दीक्षितानि सकलापद्भञ्जनान्यम्ब ते मामेवाकलयन्तु पङ्कजदलाक्षेमङ्कराण्यादरात् ।
ब्रह्मादीन् पदपद्मलग्नमकुटान् हित्वा कथञ्चिच्छिवे नेत्राण्यद्य कृपासुधारसझरीसिक्तानि हे सुन्दरि ॥ २०॥

कल्पान्ते हृत्सर्वलोकजठरस्यानन्दनाट्यं मुदा कर्तुर्यन्मणिकुण्डलीयुगलिका दीपायते सन्ततम् ।
ब्रह्मोपेन्द्रमुखामरे विरमति ब्रह्माण्डभाण्डे परं सा पाशाङ्कुशपुष्पसायकधनुर्विद्योततान्मे हृदि ॥ २१॥

लक्ष्यं किञ्च भवेन्महात्रिपुरसुन्दर्यागमान्तैर्नुते मां लक्ष्यीकुरु वीक्षणाशुगततेस्त्वामेव सर्वात्मना ।
ध्यात्वा चेतसि संस्थितं जगदिदं त्वद्रूपमार्ये सदा ज्ञात्वानन्यहृदा विहाय भजनं नश्यत्सु देवेष्विह ॥ २२॥

ह्रीङ्कारस्मरणेन देवि तरसा ह्रीमान् सुधीमान् भवेत् ते मूकोऽपि जडोऽपि पद्मजनुषा सापत्निकोऽभूद् भृशम् ।
आश्लिष्याम्बुधिकन्यकां विलसति श्रीमन्त्रराजाक्षरं तन्मय्यादिश देवदेवि कृपया धन्योऽस्म्यहं तेन च ॥ २३॥

सौवर्णोज्ज्वलमण्डपे मरतकप्राकारभित्तौ बृह- न्नानारत्नमयासने शिवमये श्रीकामराजाङ्कके ।
तिष्ठन्तीं कुरुविन्दबृन्दरुचिरां माणिक्यभूषोज्ज्वलां धन्यास्ते भुवि चिन्तयन्ति मनसा ये श्रीमहासुन्दरीम् ॥ २४॥

ऐङ्काराम्बुजकर्णिकोज्ज्वलमहद्रत्नासने संस्थितां सिञ्चन्तीममृतद्रवैः शशिशिलास्पष्टाभिरामप्रभाम् ।
तेजोभिर्जगदम्ब ये भुवि भजन्त्यापीनतुङ्गस्तनीं तेषामाननपङ्कजे निवसते वाणी सुधास्यन्दिनी ॥ २५॥

क्लीमित्यक्षरमेकमेव मनसा ध्यायन्ति ये मानवाः कन्दर्पायुततुल्यसुन्दरतरश्रीमूर्तयः शैथिलम् ।
कुर्वन्ति स्म रतेश्च नैजवपुषा ते पातिव्रत्यं सह स्पर्धन्ते हृतवाग्रमाः कमलनाभाब्जासनाभ्यां सदा ॥ २६॥

ह्रीङ्कारीं हृदयाम्बुजेऽहमधुना ह्रीङ्कारसौधे शुभे ह्रीङ्कारोन्नतरत्नमञ्चफलके ह्रीङ्कारशोणाम्बुजे ।
ह्रीङ्काराक्षरमुच्चरद्भगवतीमारोप्य शोणप्रभां ह्रीङ्काराम्बुजवारिगन्धफलताम्बूलादिभिस्तोषये ॥ २७॥

ह्रीङ्कारामृतपादमञ्जुलमणीवेद्यन्तरे भासुरां श्रीदेवीं श्रितसर्वलोकसकलाभीष्टप्रदानोत्सुकाम् ।
श्रीश्रीमत्तनुमुद्यदर्ककिरणां श्रीशाम्भवीं श्रीकरी- मात्मन्यैक्यमुपास्महे परतरां निर्वाणसंसिद्धये ॥ २८॥

।। इति श्रीमहाषोडशीवर्णरत्नावलिस्तोत्रं सम्पूर्णम् ।।