श्री महा त्रिपुरसुन्दरी प्रातः स्मरण स्तोत्रम् !

ॐ कस्तूरिकाकृत मनोज्ञललाम भास्वदर्धेन्दु मुग्धनिटिलाञ्चल नीलकेशीम् ।
प्रालम्बमाननवमौक्तिक हारभूषां प्रातः स्मरामि ललितां कमलायताक्षीम् ॥ १॥

एणाङ्कचूडसमुपार्जितपुण्यराशिमुत्तप्तहेमतनुकान्तिझरीपरीताम् ।
एकाग्रचित्तमुनिमानसराजहंसीं प्रातः स्मरामि ललितापरमेश्वरीं ताम् ॥ २॥

ईषद्विकासिनयनान्तनिरीक्षणेन साम्राज्यदानचतुरां चतुराननेड्याम् ।
ईशाङ्कवासरसिकां रससिद्धिदात्रीं प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ३॥

लक्ष्मीशपद्मभवनादिपदैश्चतुर्भिः संशोभिते च फलकेन सदाशिवेन ।
मञ्चे वितानसहिते ससुखं निषण्णां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ४॥

ह्रीं‍कारमन्त्रजपतर्पणहोमतुष्टां ह्रीं‍कारमन्त्रजलजातसुराजहंसीम् ।
ह्रीं‍कारहेमनवपञ्जरसारिकां तां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ५॥

हल्लीसलास्यमृदुगीतिरसं पिबन्तीमाकूणिताक्षमनवद्यगुणाम्बुराशिम् ।
सुप्तोत्थितां श्रुतिमनोहरकीरवाग्भिः प्रातः स्मरामि मनसा ललिताधिनाथाम्॥ ६॥

सच्चिन्मयीं सकललोकहितैषिणी च सम्पत्करीहयमुखीमुखदेवतेड्याम् ।
सर्वानवद्यसुकुमारशरीररम्यां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ७॥

कन्याभिरर्धशशिमुग्धकिरीटभास्वच्चूडाभिरङ्कगतहृद्यविपञ्चिकाभिः ।
संस्तूयमानचरितां सरसीरुहाक्षीं प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ८॥

हत्वाऽसुरेन्द्रमतिमात्रबलावलिप्तभण्डासुरं समरचण्डमघोरसैन्यम् ।
संरक्षितार्तजनतां तपनेन्दुनेत्रां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ९॥

लज्जावनम्ररमणीयमुखेन्दुबिम्बां लाक्षारुणाङ्घ्रिसरसीरुहशोभमानाम् ।
रोलम्बजालसमनीलसुकुन्तलाड्यां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ १०॥

ह्रीं‍कारिणी हिममहीधरपुण्यराशिं ह्रीं‍कारमन्त्रमहनीयमनोज्ञरूपाम् ।
ह्रीं‍कारगर्भमनुसाधकसिद्धिदात्रीं प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ११॥

सञ्जातजन्ममरणादिभयेन देवीं सम्फुल्लपद्मविलयां शरदिन्दुशुभ्राम् ।
अर्धेन्दुचूडवनितामणिमादिवन्द्यां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ १२॥

कल्याणशैलशिखरेषु विहारशीलां कामेश्वराङ्कनिलयां कमनीयरूपाम् ।
काद्यर्णमन्त्रमहनीयमहानुभावां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ १३॥

लम्बोदरस्य जननीं तनुरोमराजीं बिम्बाधरां च शरदिन्दुमुखीं मृडानीम् ।
लावण्यपूर्णजलधिं जलजातहस्तां प्रातः स्मरामि मनसा ललीताधिनाथाम् ॥ १४॥

ह्रीं‍कारपूर्णनिगमैः प्रतिपाद्यमानां ह्रीं‍कारपद्मनिलयां हतदानवेन्द्राम् ।
ह्रीं‍कारगर्भमनुराजनिषेव्यमाणां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ १५॥

श्रीचक्रराजनिलयां श्रितकामधेनुं श्रीकामराजजननीं शिवभागधेयाम् ।
श्रीमद्गुहस्य कुल्यमङ्गलदेवतां तां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ १६॥

इति श्रीत्रिपुरसुन्दरीप्रातःस्मरणं सम्पूर्णम् ॥