श्री महात्रिपुरसुन्दरी पुष्पाञ्जलि स्तवन !

ॐ कल्याणदात्रि कमनीयतनूलते त्वां कं चापि कालमनुचिन्य हृदाब्जमध्ये ।
कामं प्रहर्षभरितेन मया तवाद्य पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ १॥

एतन्मदीयसुकृत्तं परमं पुराणं यत्त्वामहं प्रतिदिनं मनसा भजामि ।
साक्षात्कृतेन तव रूपमनेन चाद्य पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ २॥

ईशादिदेवमहनीयमहानुभावे दीनं त्विमं भवभयेन परिस्फुरन्तम् ।
दीनार्तिहर्त्रि दयया परिपालयाशु पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ३॥

लज्जां विहाय बहुधा बहवोऽपि देवाः सम्पूजिता जडधिया नतु कोऽपि दृष्टः ।
लब्धं तवैव रमणीयवपुर्दृशा मे पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ४॥

ह्रीं‍कारमन्त्रनिलये बहुशो भवाब्धौ मग्नः परं तु न कदापि गतोऽस्मि पारम् ।
तत्तारणे निपुणयोस्त्रिपुरे मयाद्य पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ५॥

हस्तेषु पाशमहनीयसितेक्षुचापे पुष्पास्त्रमङ्कुशवरं ललितं दधाने ।
हेमाद्रितुङ्गतरशृङ्गनिवासशीले पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ६॥

सर्वेषु देवि समयेषु गतिस्त्वमेव नान्यं कदापि मनसा समनुस्मरामि ।
सर्वत्र रूपमतुलं तव पश्यताद्य पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ७॥

कस्ते पुरेशि विधिवत्तु समर्हणायां शक्तः समस्तपरिवर्हयुतोऽपि धीमान् ।
हृत्पङ्कजेन भवतीं भजता मयाद्य पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ८॥

हन्तातिस्थभवपावकशोषितेन कुत्राप्यलब्धशरणेन सरोजवक्त्रे ।
अन्ते मयात्रभवतीं शरणं गतेन पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ९॥

लक्ष्यासि देवि बहुजन्मतपोबलेन लक्ष्मीशधातृपरिपूज्यपदास्तुजाते ।
आलक्ष्य रूपमरुणं तव विस्मितेन पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ १०॥

ह्रीङ्कारमेव शरणं जगतां वदन्ति ह्रीङ्कारमेव परमं भुवने रहस्यम् ।
ह्रीङ्कारमेव सततं स्मरता मयाद्य पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ११॥

सर्वस्य देवि भुवनस्य निदानभूता त्वय्येव सर्वमनघे विलयं गतं स्यात् ।
सञ्चिन्त्य चैतदधुना त्रिपुरे मया ते पुष्पाञ्जलिश्चरणयोरमम्ब कीर्णः ॥ १२॥

कश्चिद्यदा भवनिहन्त्रि विचिन्तयेत्त्वां दीनं तदैव हि कटाक्षयसे दृशा त्वम् ।
एवं विचिन्त्य भवतीं स्मरता मयाद्य युष्पाञ्जलिश्चरणयोरमम्ब कीर्णः ॥ १३॥

लब्ध्वा त्वदीयचरणान्धुजमम्ब जन्तुर्नावर्तते पुनरपि प्रभवाय लोके ।
वेदोक्तिमेवमसकृत्स्मरता मयाद्य पुष्पाअलिश्चरणयोरयमम्ब कीर्णः ॥ १४॥

ह्रीङ्कारमेव जपतां प्रतिवासरं च ह्रीङ्कारमेव भजतां सकलेष्टसिद्ध्यै ।
ह्रीङ्कारमेव परमं शरणं गतेन पुष्पाञ्जलिश्चरणयोरयमप्य कीर्णः ॥ १५॥

श्रीङ्कारमन्त्रकनकाब्जनिवासशीले श्रीरूपधारिणि शिवो श्रितकल्पवल्लि ।
श्रीमद्गुहस्तुतमहाविभवे पुरेशि पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ १६॥

इति श्रीत्रिपुरसुन्दरीपुष्पाञ्जलिस्तवः सम्पूर्णः ॥