श्री महात्रिपुरसुन्दरी षोडशोपचार पूजा विधान !

ॐ कल्पलतादिसुरद्रुमवाटीकल्पितरत्नगृहाधिनिवासाम् । कल्पशतार्जितपुण्यविशेषाच्चेतसि भावनयाहमुपासे ॥ १॥

एणधराश्मकृतोन्नतधिष्ण्यं हेमविनिर्मितपादमनोज्ञम् । शोणशिलाफलकं च विशालं देवि सुखासनमद्य ददामि ॥ २॥

ईशमनोहररूपविलासे शीतलचन्दनकुङ्कुममिश्रम् । हृद्यसुवर्णघटे परिपूर्णं पाद्यमिदं त्रिपुरेशि गृहाण ॥ ३॥

लब्धभवत्करुणोऽहमिदानीं रत्नसुमाक्षतयुक्तमनर्धम् । रुक्मविनिर्मितपात्रविशेषेष्वर्घ्यमिदं त्रिपुरेशि ददामि ॥ ४॥

ह्रीमिति मन्त्रजपेन सुगम्ये हेमलतोज्ज्वलदिव्यशरीरे । योगिमनःसमशीतजलेन ह्याचमनं त्रिपुरेऽद्य विधेहि ॥ ५॥

हस्तलसत्कटकादिसुभूषा आदरतोऽम्ब वरोप्य निधाय । चन्दनवासितमन्त्रिततोयैः स्नानमयि त्रिपुरेशि विधेहि ॥ ६॥

सञ्चितमम्ब मया ह्यतिमूल्यं कुङ्कुमशोणमतीव मृदुत्वम् । शङ्करतुङ्गतराङ्कनिवासे वस्त्रयुगं त्रिपुरे परिधेहि ॥ ७॥

कन्दलदंशुकिरीटमनर्घं कङ्कणकुण्डलनूपुरहारम् । अङ्गदमङ्गुलिभूषणमम्ब स्वीकुरु देवि पुराधिनिवासे ॥ ८॥

हस्तलसच्चतुरायुधजाले शस्ततरं मृगनाभिसमेतम् । सद्धनसारसुकुङ्कुममिश्रं चन्दनपङ्कमिदं च गृहाण ॥ ९॥

लब्धविकासकदम्वकजातीचम्पकपङ्कजकेतकयुक्तैः । पुष्पचयैर्मनसावचितैस्त्वामम्ब पुरेशि भवानि भजामि ॥ १०॥

ह्रीम्पदशोभिमहामनुरूपे धूरसिमन्त्रवरेण मनोज्ञम् । अष्टसुगन्धरजःकृतमाद्ये धूपमिमं त्रिपुरेशि ददामि ॥ ११॥

सन्तमसापहमुज्ज्व्लपात्रे गव्यघृतैः परिवर्धितदेहम् । चम्पककुड्मलवृन्दसमानं दीपगणं त्रिपुरेऽद्य गृहाण ॥ १२॥

कल्पितमद्य धियाऽमृतकल्पं दुग्धसितायुतमन्नविशेषम् । माषविनिर्मिलपूपसहस्रं स्वीकुरु देवि निवेदनमाद्ये ॥ १३॥

लङ्घितकेतकवर्णविशेषैः शोधितकोमलनागदलैश्च । मौक्तिकचूर्णयुतैः क्रमुकाद्यैः पूर्णतराम्ब पुरस्तव पात्री ॥ १४॥

ह्रीं‍त्रयपूरितमन्त्रविशेषं पञ्चदशीमपि षोडशरूपम् । सञ्चितपापहरं च जपित्वा मन्त्रसुमाञ्जलिमम्ब ददामि ॥ १५॥

श्रीपदपूर्णमहामनुरूपे श्रीशिवकाममहेश्वरजाये । श्रीगुहवन्दितपादपयोजे श्रीललितापरमेशि नमस्ते ॥ १६॥

इति श्रीत्रिपुरसुन्दरीषोडशोपचारपूजा सम्पूर्णा ॥