श्री महात्रिपुरसुन्दरी षोडशोपचार पूजा विधान !

ॐ कल्पलतादिसुरद्रुमवाटीकल्पितरत्नगृहाधिनिवासाम् । कल्पशतार्जितपुण्यविशेषाच्चेतसि भावनयाहमुपासे ॥ १॥ एणधराश्मकृतोन्नतधिष्ण्यं हेमविनिर्मितपादमनोज्ञम् । शोणशिलाफलकं च विशालं देवि सुखासनमद्य ददामि ॥ २॥ ईशमनोहररूपविलासे शीतलचन्दनकुङ्कुममिश्रम् । हृद्यसुवर्णघटे परिपूर्णं पाद्यमिदं त्रिपुरेशि गृहाण ॥ ३॥ लब्धभवत्करुणोऽहमिदानीं रत्नसुमाक्षतयुक्तमनर्धम् । रुक्मविनिर्मितपात्रविशेषेष्वर्घ्यमिदं त्रिपुरेशि ददामि ॥ ४॥ ह्रीमिति मन्त्रजपेन सुगम्ये हेमलतोज्ज्वलदिव्यशरीरे । योगिमनःसमशीतजलेन ह्याचमनं त्रिपुरेऽद्य विधेहि ॥ ५॥ हस्तलसत्कटकादिसुभूषा आदरतोऽम्ब वरोप्य निधाय । चन्दनवासितमन्त्रिततोयैः स्नानमयि त्रिपुरेशि विधेहि ॥ ६॥ सञ्चितमम्ब मया ह्यतिमूल्यं कुङ्कुमशोणमतीव मृदुत्वम् । शङ्करतुङ्गतराङ्कनिवासे वस्त्रयुगं त्रिपुरे परिधेहि ॥ ७॥ कन्दलदंशुकिरीटमनर्घं…

अधिक पढ़ें

श्री महा त्रिपुरसुन्दरी प्रातः स्मरण स्तोत्रम् !

ॐ कस्तूरिकाकृत मनोज्ञललाम भास्वदर्धेन्दु मुग्धनिटिलाञ्चल नीलकेशीम् । प्रालम्बमाननवमौक्तिक हारभूषां प्रातः स्मरामि ललितां कमलायताक्षीम् ॥ १॥ एणाङ्कचूडसमुपार्जितपुण्यराशिमुत्तप्तहेमतनुकान्तिझरीपरीताम् । एकाग्रचित्तमुनिमानसराजहंसीं प्रातः स्मरामि ललितापरमेश्वरीं ताम् ॥ २॥ ईषद्विकासिनयनान्तनिरीक्षणेन साम्राज्यदानचतुरां चतुराननेड्याम् । ईशाङ्कवासरसिकां रससिद्धिदात्रीं प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ३॥ लक्ष्मीशपद्मभवनादिपदैश्चतुर्भिः संशोभिते च फलकेन सदाशिवेन । मञ्चे वितानसहिते ससुखं निषण्णां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ४॥ ह्रीं‍कारमन्त्रजपतर्पणहोमतुष्टां ह्रीं‍कारमन्त्रजलजातसुराजहंसीम् । ह्रीं‍कारहेमनवपञ्जरसारिकां तां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ५॥ हल्लीसलास्यमृदुगीतिरसं पिबन्तीमाकूणिताक्षमनवद्यगुणाम्बुराशिम् । सुप्तोत्थितां श्रुतिमनोहरकीरवाग्भिः प्रातः स्मरामि मनसा…

अधिक पढ़ें

श्री महात्रिपुरसुन्दरी पुष्पाञ्जलि स्तवन !

ॐ कल्याणदात्रि कमनीयतनूलते त्वां कं चापि कालमनुचिन्य हृदाब्जमध्ये । कामं प्रहर्षभरितेन मया तवाद्य पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ १॥ एतन्मदीयसुकृत्तं परमं पुराणं यत्त्वामहं प्रतिदिनं मनसा भजामि । साक्षात्कृतेन तव रूपमनेन चाद्य पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ २॥ ईशादिदेवमहनीयमहानुभावे दीनं त्विमं भवभयेन परिस्फुरन्तम् । दीनार्तिहर्त्रि दयया परिपालयाशु पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ३॥ लज्जां विहाय बहुधा बहवोऽपि देवाः सम्पूजिता जडधिया नतु कोऽपि दृष्टः । लब्धं तवैव रमणीयवपुर्दृशा मे पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ४॥ ह्रीं‍कारमन्त्रनिलये बहुशो भवाब्धौ मग्नः परं तु…

अधिक पढ़ें

श्री मत्त्रिपुरसुन्दरी वेदसार रहस्य स्तवन !

कस्तूरी पङ्कभास्वद्गलचलदमल स्थूलमुक्तावलीका ज्योत्स्नाशुद्धावदाता शशिशिशुमुकुटालङ्कृता ब्रह्मपत्नी । साहित्याम्भोजभृङ्गी कविकुलविनुता सात्त्विकीं वाग्विभूतिं देयान्मे शुभवस्त्रा करचलवलया वल्लकीं वादयन्ती ॥ १॥ एकान्ते योगिवृन्दैः प्रशमितकरणैः क्षुत्पिपासाविमुक्तैः सानन्दं ध्यानयोगाद्विसगुणसद्दशी दृश्यते चित्तमध्ये । या देवी हंसरूपा भवभयहरणं साधकानां विधत्ते सा नित्यं नादरूपा त्रिभुवनजननी मोदमाविष्करोतु ॥ २॥ ईक्षित्री सृष्टिकाले त्रिभुवनमथ या तत्क्षणेऽनुप्रविश्य स्थेमानं प्रापयन्ती निजगुणविभवैः सर्वथा व्याप्य विश्वम् । संहर्त्री सर्वभासां विलयनसमये स्वात्मनि स्वप्रकाशा सा देवी कर्मबन्धं मम भवकरणं नाश्यत्वादिशक्तिः ॥ ३॥ लक्ष्या या चक्रराजे नवपुरलसिते योगिनीवृन्दगुप्ते सौवर्णे…

अधिक पढ़ें

श्रीमत श्री त्रिपुरसुन्दरी श्री चक्रराज स्तोत्रम् !

ॐ कर्तुं देवि ! जगद्-विलास-विधिना सृष्टेन ते मायया सर्वानन्द-मयेन मध्य-विलसच्छ्री-विनदुनाऽलङ्कृतम् । श्रीमद्-सद्-गुरु-पूज्य-पाद-करुणा-संवेद्य-तत्त्वात्मकं श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥ १॥ एकस्मिन्नणिमादिभिर्विलसितं भूमी-गृहे सिद्धिभिः वाह्याद्याभिरुपाश्रितं च दशभिर्मुद्राभिरुद्भासितम् । चक्रेश्या प्रकतेड्यया त्रिपुरया त्रैलोक्य-सम्मोहनं श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥ २॥ ईड्याभिर्नव-विद्रुम-च्छवि-समाभिख्याभिरङ्गी-कृतं कामाकर्षिणी कादिभिः स्वर-दले गुप्ताभिधाभिः सदा । सर्वाशा-परि-पूरके परि-लसद्-देव्या पुरेश्या युतं श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥ ३॥ लब्ध-प्रोज्ज्वल-यौवनाभिरभितोऽनङ्ग-प्रसूनादिभिः सेव्यं गुप्त-तराभिरष्ट-कमले सङ्क्षोभकाख्ये सदा । चक्रेश्या पुर-सुन्दरीति जगति प्रख्यातयासङ्गतं श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥…

अधिक पढ़ें

भगवती ललिताम्बा द्वारा भंडासुर वध की लीला !

भण्ड एक असुर था जो कामदेव की भस्म से उत्पन्न हुआ था । देवी अम्बिका (त्रिपुरसुन्दरी) ने उसका वध किया था और भंडासुर संहंत्री कहलायी थीं । भगवान् शंकर ने जब कामदेव को जलाया था, तब उसकी भस्म वहीं पड़ी रह गयी थी। एक दिन गणेश ने कौतूहलवश उस भस्म से पुरुषकी आकृति बनायी। थोड़ी ही देर में वह सजीव होकर कामदेव की तरह सुन्दर बालक बन गया। उसे देख गणेशजी…

अधिक पढ़ें