ॐ नमस्कृत्य भगवान् याज्ञवल्क्यः स्वयम्भुवं परिपृच्छति ।
त्वं नो ब्रूहि ब्रह्मन् गायत्र्युत्पत्तिं-तुरीयां श्रोतुमिच्छामि ।
ब्रह्मज्ञानोत्पत्तिं प्रकृतिं परिपृच्छामि ॥ १॥
श्री भगवानुवाच ।
प्रणवेन व्याहृतयः प्रवर्तन्ते तमसस्तु परं ज्योतिः ।
कः पुरुषः ? स्वयम्भूर्विष्णुरिति ।
अथ ताः स्वाङ्गुल्या मथ्नाति । मथ्यमानात् फेनो भवति ।
फेनाद् बुद्बुदो भवति। बुद्बुदादण्डं भवति । अण्डात् आत्मा भवति ।
आत्मन आकाशो भवति । आकाशाद्वायुर्भवति । वायोर्ग्निर्भवति ।
अग्नेरोङ्कारो भवति । ओङ्काराद् व्याहृतिर्भवति ।
व्याहृत्या गायत्री भवति । गायत्र्याः सावित्री भवति ।
सावित्र्याः सरस्वती भवति । सरस्वत्या वेदाः भवन्ति ।
वेदेभ्यो ब्रह्मा भवति । ब्रह्मणो लोका भवन्ति । तस्माल्लोकाः प्रवर्तन्ते ।
चत्वारो वेदाः साङ्गाः सोपनिषदः सेतिहासास्तेसर्वे गायत्र्याः प्रवर्तन्ते ।
यथाग्निर्देवानां, ब्राह्मणो मनुष्याणां, मेरुः शिखरिणां, गङ्गा नदीनां,
वसन्त ऋतूणां, ब्रह्मा प्रजापतीनां, एवमसौ मुख्यः ।
गायत्र्या गायत्रीछन्दो भवति ॥ २॥
किं भूः ? किं भुवः ? किं स्वः ? किं महः ? किं जनः ?
किं तपः ? किं सत्यम् ? किं तत् ? किं सवितुः ?
किं वरेण्यम् ? किं भर्गः ? किं देवस्य ? किं धीमहि ?
किं धियः ? किं यः ? किं नः ? किं प्रचोदयात् ? ॥ ३॥
भूरिति भूर्लोको, भुव इत्यन्तरिक्षलोकः, स्वरिति स्वर्लोको, महरिति महर्लोको, जन इति जनो लोकः, तप इति तपो लोकः,
सत्यमिति सत्यलोकः, भूर्भुवः सव्रिति त्रैलोक्यं तदिति तेजो यत्तेजसोऽग्निर्देवता सवितुरित्यादित्यस्य
वरेण्यमित्यन्नम् अन्नमेव प्रजापतिः । भर्ग इत्यापः, आपो वै भर्गः ।
यदापस्तत् सर्वा देवताः । देवस्य सवितुर्देवो वा यः पुरुषः स विष्णुः ।
धीमहीत्यैश्वर्यं, यदैश्वर्यं स प्राण इत्यध्यात्मं, तदध्यात्मम् । तत् परमं पदं, तन्महेश्वरः, धिय इति महीति । पृथिवी मही ।
यो नः प्रचोदयादिति कामः । काम इमान् लोकान् प्रच्यायवते । यो नृशंसः । योऽनृशंसोऽस्याः स परो धर्म इत्येषा वै गायत्री ॥ ४॥
किं गोत्रा ? कत्यक्षरा ? कति पादा ? कति कुक्षिः ? कति शीर्षा ? ॥ ५॥
साङ्ख्यायन गोत्रा, चतुर्विंशत्यक्षरा वै गायत्री, त्रिपदा, षट्कुक्षिः, पञ्च शीर्षा ॥ ६॥
केऽस्यास्त्रयः पादा भवन्ति ? का अस्या षट् कुक्षयः ? कानि च पञ्च शीर्षाणि ? ॥ ७॥
ऋग्वेदोऽस्याः प्रथमः पादो भवति, यजुर्वेदो द्वितीयः सामवेदस्तृतीयः ।
पूर्वा दिक् प्रथमा कुक्षिर्भवति । दक्षिणा द्वितीया, पश्चिमा तृतीया,
उत्तरा चतुर्थी, ऊर्ध्वा पञ्चमी, अधोऽस्याः षष्ठी ।
व्याकरणमस्याः प्रथमं शीर्षां भवति, शिक्षा द्वितीयं,
कल्पस्तृतीयं, निरुक्तं चतुर्थं, ज्योतिषामयनमिति पञ्चमम् ॥ ८॥
किं लक्षणम् ? किं विचेष्टितम् ? किमुदाहृतम् ? ॥ ९॥
लक्षणं मीमांसा, अथर्ववेदो विचेष्टितं, छन्दो विचितिरुदाहृतम् ॥ १०॥
को वर्णः ? कः स्वरः ? श्वेतो वर्णः षट् स्वराः ॥ ११॥
पूर्वा भवति गायत्री, मध्यमा सावित्री, पश्चिमा स्नध्या सरस्वती । रक्ता गायत्री, श्वेता सावित्री, कृष्णा सरस्वती ॥ १२॥
प्रणवे नित्ययुक्ता स्याद् व्याहृतिषु च सप्तसु । सर्वेषामेव पापानां सङ्करे समुपस्थिते ।
शतसाहस्रमभ्यस्ता गायत्री पावनं महत् ॥ १३॥
उषः काले रक्ता, मध्याह्ने श्वेताऽपराह्मे कृष्णा । पूर्व सन्धि ब्राह्मी, मध्य सन्धि माहेश्वरी, परा सन्धि वैष्णवी ।
हंसवाहिनी ब्राह्मी, वृषवाहिनी माहेश्वरी, गरुडवाहिनी वैष्णवी ॥ १४॥
पूर्वाह्मकाले सन्ध्या गायत्री, कुमारी रक्ताङ्गी रक्तवासास्त्रिनेत्रा पाशाङ्कुशाक्षमाला कमण्डलुकरा हंसारूढा ऋग्वेदसहिता,
ब्रह्मदैवत्या भूर्लोक व्यवस्थितादित्यपथगामिनी ॥ १५॥
मध्याह्नकाले सन्ध्या सावित्री युवती श्वेताङ्गी श्वेतवासास्त्रिनेत्रा पाशाङ्कुशत्रिशूलडमरुहस्ता वृषभारूढा यजुर्वेदसहिता,
रुद्रदैवत्या भुवर्लोक व्यवस्थितादित्यपथगामिनी ॥ १६॥
सायाह्मकाले सन्ध्या सरस्वती वृद्ध कृष्णाङ्गी, कृष्णवासास्त्रिनेत्रा शङ्ख-गदा-चक्र-पद्महस्त-गरुडारूढा
सामवेदसहिता विष्णु-दैवत्या स्वर्लोक व्यवस्थितादित्यपथगामिनी ॥ १७॥
कान्यक्षर दैवतानि भवन्ति ? ॥ १८॥
प्रथममाग्नेयं, द्वितीयं प्राजापत्यं, तृतीयं सौम्यं, चतुर्थमैशानं, पङ्चमादित्यं, षष्ठं बार्हस्पत्यं,
सप्तमं भगदैवत्यं, अष्टमं पितृदैवत्यं, नवममर्यमणं, दशमं सावित्रं, एकादशं त्वाष्ट्रं, द्वादशं पौष्णं,
त्रयोदशमैन्द्राग्नं, चतुर्दशं वायव्यं, पञ्चदशं वामदेव्यं, षोडशं मैत्रावरुणं, सप्तदशं वाभ्रव्यं,
अष्टादशं वैश्वदेव्यं, एकोनविंशतिकं वैष्णव्यं, विंशतिकं वासवं, एकविंशतिकं तौषितं,
द्वाविंशतिकं कौबेरं, त्रयोविंशतिकं आश्विनं, चतुर्विंशतिकं ब्राह्मं इत्यक्षरदैवतानि भवन्ति ॥ १९॥
द्यौर्मूर्ध्निसङ्गतास्ते, ललाटे रुद्रः, भ्रुवोर्मेघः चक्षुशोश्चन्द्रादित्यौ, कर्णयोः शुक्रबृहस्पती, नासिके वायुदैवत्ये,
दन्तौष्ठावुभयसन्ध्ये, मुखमग्निः, जिह्वा सरस्वती, ग्रीवासाध्यानुगृहीतिः, स्तनयोर्वसवः, बाह्वोर्मरुतः,
हृदयं पर्जन्यमाकाशमुदरं, नाभिरन्तरिक्षं, कट्योरिन्द्राग्नी, जघनं प्राजापत्यं, कैलासमलयावूरु,
विश्वेदेवा जानुनी, जह्नुकुशिकौ जङ्घाद्वयं, खुराः पितराः, पादौ वनस्पतयः, अङ्गुलयो रोमाणि, नखाश्च मुहूर्तास्तेऽपि ग्रहाः,
केतुर्मासा ऋतवः, सन्ध्याकालस्तथाच्छादनं संवत्सरो निमिषमहोरात्र आदित्यश्चन्द्रमाः ॥ २०॥
सहस्रपरमां देवीं शतमध्यां दशावरां । सहस्रनेत्रां गायत्रीं शरणमहं प्रपद्ये ॥ २१॥
ॐ तत्सवितुर्वरेण्याय नमः । ॐ तत् पूर्व जयाय नमः । ॐ तत् प्रातरादित्य प्रतिष्ठाय नमः ॥ २२॥
सायमधीयानो दिवसकृतं पापं नाशयति । प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
तत् सायं प्रातरधीयानोऽपापो भवति ॥ २३॥
य इदं गायत्रीहृदयं ब्राह्मणः पठेत् अपेयपानात् पूतो भवति । अभक्ष्यभक्षणात् पूतो भवति । अज्ञानात् पूतो भवति ।
स्वर्णस्तेयात् पूतो भवति । गुरु तल्पगमनात् पूतो भवति । अपङ्क्ति पावनात् पूतो भवति । ब्रह्महत्यायाः पूतो भवति ।
अब्रह्मचारी ब्रह्मचारी भवति । इत्यनेन हृदयेनाधीतेन क्रतु सहस्रेणेष्टो भवति ।
षष्टि शतसहस्राणि जप्यानि फलानि भवन्ति अष्टौ ब्राह्मणान् सम्यग् ग्राहयेदर्थसिद्धिर्भवति ॥ २४॥
य इदं नित्यमधीयानो ब्राह्मणः प्रयतः शुचिः सर्वपापैः प्रमुच्यते इति । ब्रह्मलोके महीयते इत्याह भगवान् याज्ञवल्क्यः ॥ २५॥
॥ इति गायत्री हृदयं सम्पूर्णम्॥