श्री गायत्री शाप विमोचन चतुर्वर्ग फल प्राप्ति प्रकरणम् !

शापमुक्ता हि गायत्री चतुर्वर्गफलप्रदा । अशापमुक्ता गायत्री चतुर्वर्गफलान्तका ॥

ॐ अस्य श्री ब्रह्मशाप विमोचन मन्त्रस्य निग्रहानुग्रहकर्ता प्रजापति ऋषिः अथवा ब्रह्मा ऋषिः । कामदुघा गायत्री छन्दः । भुक्तिमुक्तिप्रदा ब्रह्मशापविमोचनी गायत्रीशक्तिर्देवता । ब्रह्मशापविमोचनार्थे जपे विनियोगः ॥

ॐ गायत्रीं ब्रह्मेत्युपासीत यद्रूपं ब्रह्मविदो विदुः । तां पश्यन्ति धीराः सुमनसो वाचमग्रतः ।
ॐ वेदान्तनाथाय विद्महे हिरण्यगर्भाय धीमही तन्नो ब्रह्म प्रचोदयात् ।
ॐ देवि गायत्री त्वं ब्रह्म शापात् विमुक्ता भव ॥

ॐ अस्य श्री वसिष्ठशाप विमोचन मन्त्रस्य निग्रहानुग्रहकर्ता वसिष्ठ ऋषिः । विश्वोद्भवा गायत्री छन्दः । वसिष्ठानुग्रहिता गायत्रीशक्ति देवताः । वसिष्ठ शाप विमोचनार्थं जपे विनियोगः ॥

तत्त्वानि चाङ्गेष्वग्निचितो धियांसः ध्यायति विष्णोरायुधानि बिभ्रत् ।
जनानता सा परमा च शश्वत् । गायत्रीमासाच्छुरनुत्तम च धाम
ॐ देवि गायत्री त्वं वसिष्ठ शापाद्विमुक्ता भव ।

ॐ सोऽहमर्कमयं ज्योतिरात्मज्योतिरहं शिवः । आत्मज्योतिरहं शुक्रः सर्वज्योतिरसोऽस्म्यहं ॥
(इति युक्त्व योनि मुद्रां प्रदर्श्य गायत्री त्रयं पदित्व )
( योनि मुद्रा दिखाकर ३-तीन बार गायत्री मन्त्र का जाप करे ।)
ॐ देवी गायत्री त्वं वसिष्ठ शापात् विमुक्ता भव ॥

ॐ अस्य श्री विश्वामित्रशाप विमोचन मन्त्रस्य नूतनसृष्टिकर्ता विश्वामित्र ऋषिः । वाग्दोहा गायत्री छन्दः । विश्वामित्रानुगृहिता गायत्री शक्तिः सविता देवता । विश्वामित्रशापविमोचनार्थे जपे विनियोगः ॥

तत्त्वानि चाङ्गेष्वग्निचितो धियांसस्त्रिगर्भां यदुद्भवां देवाश्चोचिरे विश्वसृष्टिम् ।

तां कल्याणीमिष्टकरीं प्रपद्ये यन्मुखान्निःसृतो वेदगर्भः ॥

ॐ देवि गायत्री त्वं विश्वामित्र शापाद्विमुक्ता भव ॥

ॐ गायत्रीं भजाम्यग्निमुखीं विश्वगर्भां यदुद्भवाः ।
देवाश्चक्रिरे विश्वसृष्टिं तां कल्याणीमिष्टकरीं प्रपद्ये ॥
ॐ देवी गायत्री त्वं विश्वामित्र शापात् विमुक्ता भव ॥

ॐ अस्य श्रीशुक्रशापविमोचनमन्त्रस्य श्रीशुक्र ऋषिः । अनुष्टुप्छन्दः । देवि गायत्री देवताः । शुक्र शाप विमोचनार्थं जपे विनियोगः ॥

सोऽहमर्कमयं ज्योतिरर्कज्योतिरहं शिवः । आत्मज्योतिरहं शुक्रः सर्वज्योतिरसोऽस्म्यहं ॥

ॐ देवी गायत्री त्वं शुक्र शापात् विमुक्ता भव ॥

प्रार्थना ।
ॐ अहो देवि महादेवि सन्ध्ये विद्ये सरस्वती । अजरे अमरे चैव ब्रह्मयोनिर्निमोऽस्तुते ॥

ॐ देवी गायत्री त्वं ब्रह्मशापात् विमुक्ता भव । वसिष्ठशापात् विमुक्ता भव ।

विश्वामित्रशापात् विमुक्ता भव । शुक्रशापात् विमुक्ता भव ॥