श्रीगणेशाय नमः । अवर्षिसंज्ञं पुरमस्ति लोके कात्यायनी तत्र विराजते या । प्रसाददा या प्रतिभा तदीया सा छत्रपुर्यां जयतीह गेया ॥ १॥ त्वमस्य भिन्नैव विभासि तस्यास्तेजस्विनी दीपजदीपकल्पा । कात्यायनी स्वाश्रितदुःखहर्त्री पवित्रगात्री मतिमानदात्री ॥ २॥ ब्रह्मोरुवेतालकसिंहदाढोसुभैरवैरग्निगणाभिधेन । संसेव्यमाना गणपत्यभिख्या युजा च देवि स्वगणैरिहासि ॥ ३॥ गोत्रेषु जातैर्जमदग्निभारद्वाजाऽत्रिसत्काश्यपकौशिकानाम् । कौण्डिन्यवत्सान्वयजैश्च विप्रैर्निजैर्निषेव्ये वरदे नमस्ते ॥ ४॥ भजामि गोक्षीरकृताभिषेके रक्ताम्बरे रक्तसुचन्दनाक्ते । त्वां बिल्वपत्रीशुभदामशोभे भक्ष्यप्रिये हृत्प्रियदीपमाले ॥ ५॥ खड्गं च शङ्खं महिषासुरीयं पुच्छं त्रिशूलं महिषासुरास्ये ।…
अधिक पढ़ेंश्रीशिव उवाच शतमष्टोत्तरं नाम्नां कमलाया वरानने । प्रवक्ष्याम्यतिगुह्यं हि न कदापि प्रकाशयेत् ॥ १॥ महामाया महालक्ष्मीर्महावाणी महेश्वरी । महादेवी महारात्रिर्महिषासुरमर्दि नी ॥ २॥ कालरात्रिः कुहूः पूर्णा नन्दाऽऽद्या भद्रिका निशा । जया रिक्ता महाशक्तिर्देवमाता कृशोदरी ॥ ३॥ शचीन्द्राणी शक्रनुता शङ्करप्रियवल्लभा । महावराहजननी मदनोन्मथिनी मही ॥ ४॥ वैकुण्ठनाथरमणी विष्णुवक्षःस्थलस्थिता । विश्वेश्वरी विश्वमाता वरदाऽभयदा शिवा ॥ ५॥ शूलिनी चक्रिणी मा च पाशिनी शङ्खधारिणी । गदिनी मुण्डमाला च कमला करुणालया ॥ ६॥ पद्माक्षधारिणी ह्यम्बा महाविष्णुप्रियङ्करी…
अधिक पढ़ेंश्रीगणेशाय नमः । ॐ अस्याश्चतुरक्षराविष्णुवनितायाः कवचस्य श्रीभगवान् शिव ऋषिः । अनुष्टुप्छन्दः । वाग्भवा देवता । वाग्भवं बीजम् । लज्जा शक्तिः । रमा कीलकम् । कामबीजात्मकं कवचम् । मम सुकवित्वपाण्डित्यसमृद्धिसिद्धये पाठे विनियोगः । ऐङ्कारो मस्तके पातु वाग्भवां सर्वसिद्धिदा । ह्रीं पातु चक्षुषोर्मध्ये चक्षुर्युग्मे च शाङ्करी ॥ १॥ जिह्वायां मुखवृत्ते च कर्णयोर्दन्तयोर्नसि । ओष्ठाधारे दन्तपङ्क्तौ तालुमूले हनौ पुनः ॥ २॥ पातु मां विष्णुवनिता लक्ष्मीः श्रीवर्णरूपिणी ॥ कर्णयुग्मे भुजद्वन्द्वे स्तनद्वन्द्वे च पार्वती ॥ ३॥…
अधिक पढ़ेंवन्दे गुरुपदद्वन्द्वमवाङ्मानसगोचरं । रक्तशुक्लप्रभामिश्रमतर्क्यं त्रैपुरं महः ॥ अखण्डमण्डलाकारं विश्वं व्याप्य व्यवस्थितं । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ शिवे सेवासक्ताश्रितभरणकार्यैकचतुरे शिरोभिर्वेदानां चिरविनुतकल्याणचरिते । स्मितज्योत्स्नालीलारुचिररुचिमच्चन्द्रवदने जगन्मातर्मातर्जय कनकदुर्गे भगवति ॥ १॥ नगाधीशट्कन्ये नलिनदळसङ्काशनयने सुगीतैर्गन्धर्वैस्सुरयुवतिभिश्चानुचरिते । अगण्यैराम्नायैरपि गुणनिकायैर्विलसिते जगन्मातर्मातर्जय कनकदुर्गे भगवति ॥ २॥ निजश्रेयस्कामैर्निटलघटितां च तत्करपुटैः स्तुवद्भिस्सानन्दं श्रुतिमधुरवाचां विरचनैः । असङ्ख्यैर्ब्रह्माद्यैरमरसमुदायैः परिवृते दया कर्तव्या ते मयि कनकदुर्गे भगवति ॥ ३॥ भवत्पादन्यासोचितकनकपीठीपरिसरे पतन्तस्साष्टाङ्गं मुदितहृदया ब्रह्मऋषयः । न वाञ्छन्ति स्वर्गं न च कमलसम्भूतभवनं न वा…
अधिक पढ़ेंकरकलितचापबाणां कल्हाराङ्घ्रिं नमामि कल्याणीम् । कंदर्पदर्पजननीं कलुषहरां कामितार्थफलदात्रीम् ॥ १ ॥ एषा स्तोतुम् वाणी नैव समर्था तवेशि महिमानम् । शेषोऽप्यब्दसहस्रैः शेषं कृतवान् महेशि तव चरितम् ॥ २ ॥ ईशित्वादिसुपूज्यामिन्दिन्दिरकेशाभारसूल्लसिताम् । इन्दीवरदलनयनामीप्सितदात्रीं नमामि शर्वाणीम् ॥ ३ ॥ लसदरुणभानुकोटिद्युतिनिधिमम्बां सुरेन्द्रलक्ष्यपदाम् । ललितां नमामि बाले ललितशिवहृदयकमलकलहंसीम् ॥ ४ ॥ ह्रींकारबीजरूपे हिमगिरिकन्ये हरीन्द्रभववन्द्ये । हिमकरधवलच्छत्रे हिताय भव नः सदा महाराज्ञि ॥ ५ ॥ हर्षोत्करजनयित्री हसितज्योत्स्ना तवेयमनवद्ये । हरगलहालाहलमपि हरति त्रैलोक्यमोहतिमिरं ते ॥ ६ ॥ सकलमनोरथदाने…
अधिक पढ़ेंश्रीनाथादिगुरुत्रयं गणपतिं पीठत्रयं भैरवम् । सिद्धौघं वटुकत्रयं पदयुगं दूतीक्रमं मण्डलम् ॥ वीरान्द्व्यष्टचतुष्कषष्टिनवकं वीरावलीपञ्चकम् । श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् ॥ (गुरुपादुकामनुमुच्चार्य सुमुखादिभिः पञ्चमुद्राभिः श्रीगुरुं प्रणम्य) पूर्वाम्नायः – शुद्धविद्या च बाला च द्वादशार्धा मतङ्गिनी । द्विजत्वसाधिनी विद्या गायत्री वेदमातृका ॥ १॥ गाणपत्यं कार्तिकेयं मृत्युञ्जयं नीलकण्ठम् । त्र्यम्बकं जातवेदाश्च तथा प्रत्यङ्गिरादयः ॥ २॥ मुखात्तत्पुरुषाज्जाता द्विकोटीमन्त्रनायिकाः । एताः कामगिरीन्द्राश्च पूर्वाम्नायस्य देवताः ॥ ३॥ गुरुत्रयादिपीठान्तं चतुर्विंशत्सहस्रकम् । एतदावरणोपेतं पूर्वाम्नायं भजाम्यहम् ॥ ४॥ विशुद्धौ चिन्तयेद्धीमान् पूर्वाम्नायस्य देवताः ।…
अधिक पढ़ेंभवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः प्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि । न षड्भिः सेनानीर्दशशतमुखैरप्यहिपतिः तदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ १॥ घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदैः विशिष्यानाख्येयो भवति रसनामात्र विषयः । तथा ते सौन्दर्यं परमशिवदृङ्मात्रविषयः कथंकारं ब्रूमः सकलनिगमागोचरगुणे ॥ २॥ मुखे ते ताम्बूलं नयनयुगळे कज्जलकला ललाटे काश्मीरं विलसति गळे मौक्तिकलता । स्फुरत्काञ्ची शाटी पृथुकटितटे हाटकमयी भजामि त्वां गौरीं नगपतिकिशोरीमविरतम् ॥ ३॥ विराजन्मन्दारद्रुमकुसुमहारस्तनतटी नदद्वीणानादश्रवणविलसत्कुण्डलगुणा नताङ्गी मातङ्गी रुचिरगतिभङ्गी भगवती सती शम्भोरम्भोरुहचटुलचक्षुर्विजयते ॥ ४॥ नवीनार्कभ्राजन्मणिकनकभूषणपरिकरैः वृताङ्गी सारङ्गीरुचिरनयनाङ्गीकृतशिवा । तडित्पीता…
अधिक पढ़ेंअस्य श्रीअष्टलक्ष्मीमालामन्त्रस्य – भृगु ऋषिः – अनुष्टुप् छन्दः – महालक्ष्मीर्देवता – श्रीं बीजं – ह्रीं शक्तिः – ऐं कीलकं – श्री अष्ट लक्ष्मी प्रसाद सिद्ध्यर्थे जपे विनियोगः । ॐ नमो भगवत्यै लोकवशीकरमोहिन्यै, ॐ ईं ऐं क्षीं, श्री आदिलक्ष्मी, सन्तानलक्ष्मी, गजलक्ष्मी, धनलक्ष्मी, धान्यलक्ष्मी, विजयलक्ष्मी, वीरलक्ष्मी, ऐश्वर्यलक्ष्मी, अष्टलक्ष्मी इत्यादयः मम हृदये दृढतया स्थिता सर्वलोकवशीकराय, सर्वराजवशीकराय, सर्वजनवशीकराय सर्वकार्यसिद्धिदे, कुरु कुरु, सर्वारिष्टं जहि जहि, सर्वसौभाग्यं कुरु कुरु, ॐ नमो भगवत्यै श्रीमहालाक्ष्म्यै ह्रीं फट् स्वाहा ॥…
अधिक पढ़ेंकदम्बवनचारिणीं मुनिकदम्बकादम्बिनीं नितम्बजित भूधरां सुरनितम्बिनीसेविताम् । नवाम्बुरुहलोचनामभिनवाम्बुदश्यामलां त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ १॥ कदम्बवनवासिनीं कनकवल्लकीधारिणीं महार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम् । दयाविभवकारिणीं विशदलोचनीं चारिणीं त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ २॥ कदम्बवनशालया कुचभरोल्लसन्मालया कुचोपमितशैलया गुरुकृपालसद्वेलया । मदारुणकपोलया मधुरगीतवाचालया कयाऽपि घननीलया कवचिता वयं लीलया ॥ ३॥ कदम्बवनमध्यगां कनकमण्डलोपस्थितां षडम्बुरुहवासिनीं सततसिद्धसौदामिनीम् । विडम्बितजपारुचिं विकचचंद्रचूडामणिं त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ४॥ कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालंकृतां कुशेशयनिवासिनीं कुटिलचित्तविद्वेषिणीम् । मदारुणविलोचनां मनसिजारिसंमोहिनीं मतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये ॥ ५॥ स्मरप्रथमपुष्पिणीं रुधिरबिन्दुनीलाम्बरां गृहीतमधुपात्रिकां मदविघूर्णनेत्राञ्चलां । घनस्तनभरोन्नतां गलितचूलिकां श्यामलां त्रिलोचनकुटुंबिनीं त्रिपुरसुन्दरीमाश्रये ॥ ६॥…
अधिक पढ़ेंशारीरिक दर्द, विशेष रूप से गर्दन, कंधे और पीठ में। यह आपके आध्यात्मिक डीएनए स्तर पर गहन परिवर्तन का परिणाम है क्योंकि “ईश्वरीय बीज” जागता है।यह साधना करतें रहने से ठिक हो जाएगा। बीना किसी कारण के लिए गहरी आंतरिक उदासी महसूस करना यह अनुभव से आप अपने अतीत (इस जीवनकाल और अन्य) कि दुखद घटनाओं से से मुक्त होने पर अनुभव करते हैं और इससे अकारण दुःख की भावना पैदा…
अधिक पढ़ें
