श्री महा त्रिपुरसुन्दरी प्रातः स्मरण स्तोत्रम् !

ॐ कस्तूरिकाकृत मनोज्ञललाम भास्वदर्धेन्दु मुग्धनिटिलाञ्चल नीलकेशीम् । प्रालम्बमाननवमौक्तिक हारभूषां प्रातः स्मरामि ललितां कमलायताक्षीम् ॥ १॥ एणाङ्कचूडसमुपार्जितपुण्यराशिमुत्तप्तहेमतनुकान्तिझरीपरीताम् । एकाग्रचित्तमुनिमानसराजहंसीं प्रातः स्मरामि ललितापरमेश्वरीं ताम् ॥ २॥ ईषद्विकासिनयनान्तनिरीक्षणेन साम्राज्यदानचतुरां चतुराननेड्याम् । ईशाङ्कवासरसिकां रससिद्धिदात्रीं प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ३॥ लक्ष्मीशपद्मभवनादिपदैश्चतुर्भिः संशोभिते च फलकेन सदाशिवेन । मञ्चे वितानसहिते ससुखं निषण्णां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ४॥ ह्रीं‍कारमन्त्रजपतर्पणहोमतुष्टां ह्रीं‍कारमन्त्रजलजातसुराजहंसीम् । ह्रीं‍कारहेमनवपञ्जरसारिकां तां प्रातः स्मरामि मनसा ललिताधिनाथाम् ॥ ५॥ हल्लीसलास्यमृदुगीतिरसं पिबन्तीमाकूणिताक्षमनवद्यगुणाम्बुराशिम् । सुप्तोत्थितां श्रुतिमनोहरकीरवाग्भिः प्रातः स्मरामि मनसा…

अधिक पढ़ें

श्री महात्रिपुरसुन्दरी पुष्पाञ्जलि स्तवन !

ॐ कल्याणदात्रि कमनीयतनूलते त्वां कं चापि कालमनुचिन्य हृदाब्जमध्ये । कामं प्रहर्षभरितेन मया तवाद्य पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ १॥ एतन्मदीयसुकृत्तं परमं पुराणं यत्त्वामहं प्रतिदिनं मनसा भजामि । साक्षात्कृतेन तव रूपमनेन चाद्य पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ २॥ ईशादिदेवमहनीयमहानुभावे दीनं त्विमं भवभयेन परिस्फुरन्तम् । दीनार्तिहर्त्रि दयया परिपालयाशु पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ३॥ लज्जां विहाय बहुधा बहवोऽपि देवाः सम्पूजिता जडधिया नतु कोऽपि दृष्टः । लब्धं तवैव रमणीयवपुर्दृशा मे पुष्पाञ्जलिश्चरणयोरयमम्ब कीर्णः ॥ ४॥ ह्रीं‍कारमन्त्रनिलये बहुशो भवाब्धौ मग्नः परं तु…

अधिक पढ़ें

सर्व तन्त्र सिद्धि प्रदाता श्री त्रिपुरभैरवी सहस्रनाम स्तोत्रम् !

श्री महाकालभैरव उवाच अथ वक्ष्ये महेशानि देव्या नामसहस्रकम् । यत्प्रसादान्महादेवि चतुर्वर्गफलल्लभेत् ॥ १ ॥ सर्वरोगप्रशमनं सर्वमृत्युविनाशनम् । सर्वसिद्धिकरं स्तोत्रन्नातः परतः स्तवः ॥ २ ॥ नातः परतरा विद्या तीर्त्थन्नातः परं स्मृतम् । यस्यां सर्वं समुत्पन्नय्यस्यामद्यापि तिष्ठति ॥ ३ ॥ क्षयमेष्यति तत्सर्वं लयकाले महेश्वरि । नमामि त्रिपुरान्देवीम्भैरवीं भयमोचिनीम् । सर्वसिद्धिकरीं साक्षान्महापातकनाशिनीम् ॥ ४ ॥ ॐ अस्य श्री त्रिपुरभैरवी सहस्रनाम स्तोत्रस्य भगवान् ऋषिः। पङ्क्तिश्छन्दः। आद्या शक्तिः। भगवती त्रिपुरभैरवी देवता । सर्वकामार्त्थसिद्ध्यर्त्थे जपे विनियोगः ॥…

अधिक पढ़ें

श्री सिद्ध चण्डिका हृदय स्तोत्रम् !

ॐ अस्य श्री चण्डिका हृदय स्तोत्र महामन्त्रस्य । मार्क्कण्डेय ऋषिः, अनुष्टुप्च्छन्दः, श्री चण्डिका देवता । ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं,अस्य श्री चण्डिका प्रसाद सिद्ध्यर्थे जपे विनियोगः । ह्रां इत्यादि षडंग न्यासः । ध्यानं । सर्वमंगळ मांगल्ये शिवे सर्वार्त्थ साधिके । शरण्ये त्र्यम्बके गौरी नारायणी नमोस्तुते ॥ ब्रह्मोवाच । अथातस्सं प्रवक्ष्यामि विस्तरेण यथातथं । चण्डिका हृदयं गुह्यं शृणुष्वैकाग्रमानसः । । ॐ ऐं ह्रीं क्ळीं, ह्रां, ह्रीं, ह्रूं जय जय चामुण्डे, चण्डिके,…

अधिक पढ़ें

श्री मत्त्रिपुरसुन्दरी वेदसार रहस्य स्तवन !

कस्तूरी पङ्कभास्वद्गलचलदमल स्थूलमुक्तावलीका ज्योत्स्नाशुद्धावदाता शशिशिशुमुकुटालङ्कृता ब्रह्मपत्नी । साहित्याम्भोजभृङ्गी कविकुलविनुता सात्त्विकीं वाग्विभूतिं देयान्मे शुभवस्त्रा करचलवलया वल्लकीं वादयन्ती ॥ १॥ एकान्ते योगिवृन्दैः प्रशमितकरणैः क्षुत्पिपासाविमुक्तैः सानन्दं ध्यानयोगाद्विसगुणसद्दशी दृश्यते चित्तमध्ये । या देवी हंसरूपा भवभयहरणं साधकानां विधत्ते सा नित्यं नादरूपा त्रिभुवनजननी मोदमाविष्करोतु ॥ २॥ ईक्षित्री सृष्टिकाले त्रिभुवनमथ या तत्क्षणेऽनुप्रविश्य स्थेमानं प्रापयन्ती निजगुणविभवैः सर्वथा व्याप्य विश्वम् । संहर्त्री सर्वभासां विलयनसमये स्वात्मनि स्वप्रकाशा सा देवी कर्मबन्धं मम भवकरणं नाश्यत्वादिशक्तिः ॥ ३॥ लक्ष्या या चक्रराजे नवपुरलसिते योगिनीवृन्दगुप्ते सौवर्णे…

अधिक पढ़ें

श्रीमत श्री त्रिपुरसुन्दरी श्री चक्रराज स्तोत्रम् !

ॐ कर्तुं देवि ! जगद्-विलास-विधिना सृष्टेन ते मायया सर्वानन्द-मयेन मध्य-विलसच्छ्री-विनदुनाऽलङ्कृतम् । श्रीमद्-सद्-गुरु-पूज्य-पाद-करुणा-संवेद्य-तत्त्वात्मकं श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥ १॥ एकस्मिन्नणिमादिभिर्विलसितं भूमी-गृहे सिद्धिभिः वाह्याद्याभिरुपाश्रितं च दशभिर्मुद्राभिरुद्भासितम् । चक्रेश्या प्रकतेड्यया त्रिपुरया त्रैलोक्य-सम्मोहनं श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥ २॥ ईड्याभिर्नव-विद्रुम-च्छवि-समाभिख्याभिरङ्गी-कृतं कामाकर्षिणी कादिभिः स्वर-दले गुप्ताभिधाभिः सदा । सर्वाशा-परि-पूरके परि-लसद्-देव्या पुरेश्या युतं श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥ ३॥ लब्ध-प्रोज्ज्वल-यौवनाभिरभितोऽनङ्ग-प्रसूनादिभिः सेव्यं गुप्त-तराभिरष्ट-कमले सङ्क्षोभकाख्ये सदा । चक्रेश्या पुर-सुन्दरीति जगति प्रख्यातयासङ्गतं श्री-चक्रं शरणं व्रजामि सततं सर्वेष्ट-सिद्धि-प्रदम् ॥…

अधिक पढ़ें

श्री गायत्री शाप विमोचन चतुर्वर्ग फल प्राप्ति प्रकरणम् !

शापमुक्ता हि गायत्री चतुर्वर्गफलप्रदा । अशापमुक्ता गायत्री चतुर्वर्गफलान्तका ॥ ॐ अस्य श्री ब्रह्मशाप विमोचन मन्त्रस्य निग्रहानुग्रहकर्ता प्रजापति ऋषिः अथवा ब्रह्मा ऋषिः । कामदुघा गायत्री छन्दः । भुक्तिमुक्तिप्रदा ब्रह्मशापविमोचनी गायत्रीशक्तिर्देवता । ब्रह्मशापविमोचनार्थे जपे विनियोगः ॥ ॐ गायत्रीं ब्रह्मेत्युपासीत यद्रूपं ब्रह्मविदो विदुः । तां पश्यन्ति धीराः सुमनसो वाचमग्रतः । ॐ वेदान्तनाथाय विद्महे हिरण्यगर्भाय धीमही तन्नो ब्रह्म प्रचोदयात् । ॐ देवि गायत्री त्वं ब्रह्म शापात् विमुक्ता भव ॥ ॐ अस्य श्री वसिष्ठशाप विमोचन मन्त्रस्य…

अधिक पढ़ें

श्री रुद्रयामल तन्त्रोक्त श्री सिद्ध गायत्री कवचं !

श्रीपार्वत्युवाच । देवदेव महादेव संसारार्णवतारकम् । गायत्रीकवचं देव कृपया कथय प्रभो ॥ १॥ श्रीमहादेव उवाच । मूलाधारे स्थिता नित्यं कुण्डली तत्त्वरूपिणी । सूक्ष्मातिसूक्ष्मपरमा बिसतन्तुस्वरूपिणी ॥ २॥ विद्युत्पुञ्जप्रतीकाशा कुण्डली श्रुतिसर्पिणी । परस्य ब्रह्मग्रहणी पञ्चाशद्वर्णरूपिणी ॥ ३॥ शिवस्य नर्तकी नित्या परब्रह्मप्रपूजिता । ब्राह्मणस्यैव गायत्री चिदानन्दस्वरूपिणी ॥ ४॥ ब्रह्मण्यवर्त्मवातेयं प्राणात्मा नित्यनूतनात् । नित्यं तिष्ठति सानन्दा कुण्डली तव विग्रहे ॥ ५॥ अतिगोप्यं महत्पुण्यं त्रिकोटीतीर्थसंयुतम् । सर्वज्ञानमयी देवी सर्वदानमयी सदा ॥ ६॥ सर्वसिद्धिमयी देवी पार्वती प्राणवल्लभा…

अधिक पढ़ें

सर्वानन्द दायक श्री कामाख्या ध्यानं स्तोत्रं !

कामाख्या ध्यानम् रविशशियुतकर्णा कुंकुमापीतवर्णा मणिकनकविचित्रा लोलजिह्वा त्रिनेत्रा । अभयवरदहस्ता साक्षसूत्रप्रहस्ता प्रणतसुरनरेशा सिद्धकामेश्वरी सा ॥ १॥ अरुणकमलसंस्था रक्तपद्मासनस्था नवतरुणशरीरा मुक्तकेशी सुहारा । शवहृदि पृथुतुङ्गा स्वाङ्घ्रियुग्मा मनोज्ञा शिशुरविसमवस्त्रा सर्वकामेश्वरी सा ॥ २॥ विपुलविभवदात्री स्मेरवक्त्रा सुकेशी दलितकरकदन्ता सामिचन्द्रावतंसा । मनसिज-दृशदिस्था योनिमुद्रालसन्ती पवनगगनसक्ता संश्रुतस्थानभागा । चिन्ता चैवं दीप्यदग्निप्रकाशा धर्मार्थाद्यैः साधकैर्वाञ्छितार्था ॥ ३॥ कामाख्या स्तोत्रम् जय कामेशि चामुण्डे जय भूतापहारिणि । जय सर्वगते देवि कामेश्वरि नमोऽस्तु ते ॥ १॥ विश्वमूर्ते शुभे शुद्धे विरूपाक्षि त्रिलोचने । भीमरूपे…

अधिक पढ़ें

स्वयं सिद्ध श्री कामाख्या महा कवचम् !

कामाख्या ध्यानम् रविशशियुतकर्णा कुंकुमापीतवर्णा मणिकनकविचित्रा लोलजिह्वा त्रिनेत्रा । अभयवरदहस्ता साक्षसूत्रप्रहस्ता प्रणतसुरनरेशा सिद्धकामेश्वरी सा ॥ १॥ अरुणकमलसंस्था रक्तपद्मासनस्था नवतरुणशरीरा मुक्तकेशी सुहारा । शवहृदि पृथुतुङ्गा स्वाङ्घ्रियुग्मा मनोज्ञा शिशुरविसमवस्त्रा सर्वकामेश्वरी सा ॥ २॥ विपुलविभवदात्री स्मेरवक्त्रा सुकेशी दलितकरकदन्ता सामिचन्द्रावतंसा । मनसिज-दृशदिस्था योनिमुद्रालसन्ती पवनगगनसक्ता संश्रुतस्थानभागा । चिन्ता चैवं दीप्यदग्निप्रकाशा धर्मार्थाद्यैः साधकैर्वाञ्छितार्था ॥ ३॥ कामाख्या-कवचम् ॐ कामाख्याकवचस्य मुनिर्बृहस्पतिः स्मृतः । देवी कामेश्वरी तस्य अनुष्टुप्छन्द इष्यते ॥ विनियोगः सर्वसिद्धौ तञ्च शृण्वन्तु देवताः । शिराः कामेश्वरी देवी कामाख्या चक्षूषी…

अधिक पढ़ें